________________
॥६
॥
* कूणिकभूभुजः । जातामर्षप्रकर्षेति, चिंतयामास चेतसि ॥ २७ ॥ दिव्यहारादिना गंध-हस्तिना चामुना विना ॥ । राज्यं न राजते प्राज्य-मप्यनाज्यमिवाशनम् ॥ २८ ॥ तत् पत्या सर्वमप्येत-द्राहयिष्ये बलादपि ॥ ध्यात्वेति सा *खमाकूतं, रहो राज्ञे न्यवेदयत् ॥ २९ ॥ भूपोऽवादीदाददानो, भ्रात्रोरपि रमामहम् ॥ काकादपि निकृष्टः स्यां,
तदलं वार्तयानया ॥३०॥ निषिद्धापि नृपेणैवं, नाग्रहं तं मुमोच सा ॥ बालानामिव बालाना-माग्रहो हि भवेबली ॥ ३१ ॥ प्रपेदे तद्विशामीश-स्तत्प्रेमविवशोऽथ सः ॥ अकार्यमपि किं प्रायो, न कुर्वति ? वशावशाः!॥३२॥ यदुक्तम्-"सुवंशजोऽप्यकृत्यानि, कुरुते प्रेरितः स्त्रिया ॥ स्नेहलं दधि मनाति, पश्य मंधानको न किम् ? ॥ ३३ ॥" - हारादिकं नृपोऽन्येद्यु-तिरौ तावयाचत ॥ विहाय दूरतः स्नेह-मुन्मत्त इव चीवरम् ॥ ३४ ॥ ताबूचतुस्तातदत्तं,
तदातुं नार्हमावयोः ॥ तथापि दद्वहे राजन् ! राज्यांशं चेद्ददासि नौ ॥ ३५ ॥ इत्युक्तः पार्थिवस्ताभ्यां, कषायकलुपोऽवदत् ॥ वात्सल्यादविमृश्यैव, तातेनादायि किं ततः ? ॥ ३५॥ किं चाहति ममैवेदं, सारं रत्नचतुष्टयम् ॥
रत्नानि राजगामिनी-त्युच्यते हि जडैरपि ॥ ३७ ॥ ततस्तद्दीयतां नोचे-द्रहीष्यामि बलादपि ॥ ओमित्युक्त्वा II ततो हल्ल-विहल्लौ जग्मतुहम् ॥ ३८ ॥ दध्यतुश्चेति राज्ञोऽस्य, शोभनो नायमाशयः । वासः ससर्पधानीव, नेह
श्रेयांस्तदावयोः ॥ ३९ ॥ ध्यात्वेत्यादाय हारादि, सर्व तौ सपरिच्छदौ ॥ चंपायां निशि निर्गत्य, वैशाली जग्मतुः पु| रीम् ॥ ४० ॥ मातामहाय तौ तत्र, चेटकाय महीभुजे ॥ सर्व खोदंतमावेद्या-स्थातां तत्कृतगौरवौ ॥४१॥ कूणि
UTR-1