SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ॥४ ॥ व्याख्या- आज्ञानिर्देशं न करोतीत्याज्ञानिर्देशाकरः, तथा गुरूणामनुपपातकारकः, प्रत्यनीकः प्रतिकुलवर्ती।। कुतोऽयमेवंविधः ? इत्याह- यतो असंबुद्धोऽज्ञाततत्त्वः, सोऽविनीत इत्युच्यते, कूलवालकश्रमणवत्, तथा हि सूररेकस्य शिष्योऽभू-दविनीतोऽतिरोषणः ॥ चुकोप कोपसदनं, शिक्ष्यमाणः स सूरिणा ॥१॥ दक्षया शिक्षया सूरि-स्तथापि तमशिक्षयत् ॥ स तु तामपि मेनेऽन्त-विषाक्तविशिखोपमाम् ॥ २॥ हितशिक्षा हि दुष्टानां, नोपकाराय जायते ॥ पयःपानमिवाहीनां, किन्तु स्याद्विषवृद्धये ॥३॥ नत्वाऽन्यदा सिद्धशैले, जिनानुत्तरतो गुरून् ॥ पेष्टुं दुष्टः स पृष्ठस्थो, गंडशैलमलोठयत् ॥ ४ ॥ शब्दायमानमायान्तं, तं च प्रेक्ष्य गुरुर्दुतम् ॥ पादौ प्रासारयत् प्राज्ञस्ततः सोऽगात्तदन्तरे ॥५॥ अक्षतांगस्ततः सूरिः, क्रुद्धस्तेन कुकर्मणा ॥ भावीपातोऽङ्गनायास्ते, रे ! पापेति शशाप * तम् ॥ ६ ॥ गुरोगिरं मृषाकर्तुं, क्षुलः क्षुद्रमतिः स तु ॥ गत्या निर्मानुषारण्ये, तस्थौ गिरिणदीतटे ॥ ७ ॥ स | तंत्रातापनासेवी, तपस्तेपे सुदुस्तपम् ॥ पारणां चाध्वगादिभ्यो, मासपक्षादिना व्यधात् ॥ ८॥ अथायातासु वर्षासु, | तरुणांबुदकामुकैः ॥ अपूर्यतार्णवानीतै-नंदीवेश्याः पयोधनैः ॥ ९॥ एनं कूलंकपाकूलं, निकषासंस्थितं मुनिम् ॥ | मानैषीदंबुपुरोऽन्धिं, दुष्टो वाह इबाटवीम् ॥ १०॥ इति ध्यात्वा नदीदेच्या, साऽन्यतोऽवाहि वाहिनी ॥ कूलवालKIक इत्यूचु-स्ततस्तं संयतं जनाः ॥ ११ ॥ (युग्मम् ) इतश्च श्रेणिको राजा, पुरे राजगृहेऽभवत् ॥ नंदा च चिल्लणा चास्तां, महिप्यौ तस्य मंजुले ॥ १२ ॥ तत्रा UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy