________________
उत्तराध्ययन
प्रथमाध्ययनम् (१)
स्त्रीणाम् ॥ १॥" किं चैवं श्रोतारमभिमुखीकृत्यापि धर्म वदतो वक्तलाभ एव, यदुक्तं-"न भवति धर्मः श्रोतुः, सर्वस्यैकांततो हितश्रवणात् ॥ Qवतोऽनुग्रहबुद्धा, वक्तुस्त्वेकांततो भवति॥१॥” इति सूत्रार्थः ॥ १॥ अथ विनयो गुणः, स च जीवादभिन्न इति विनीतगुणैरेव विनयखरूपमाह| मूलम्-आणाणिदेसयरे, गुरूणमुववायकारए । इंगिआगारसंपन्ने, से विणीयत्ति वुच्चइ ॥२॥
व्याख्या-आज्ञा,-सौम्य ! इदं कुरु, इदं च माकार्षीरिति गुरुवचनं, तस्या निर्देश इदमित्थमेव करोमीति निश्चयाभिधानमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरः । तथा गुरूणां आचार्यादीनां उपपातः समीपदेशावस्थानं, तत्कारकस्तद्विधायी गुरुपार्थावस्थायी, न तु गुर्वादेशादिभीत्या दूरदेशस्थायीति भावः, इंगितं निपुणमतिज्ञेयं प्रवृत्तिनिवृत्तिसूचकं ईषद्भूशिरःकंपाद्याकारः स्थूलधीसंवेद्यः प्रस्थानादिभावज्ञापको दिगवलोकनादिः, आह च-"अवलोअणं दिसाणं, विअंभणं साडयस्स संवरणं ॥ आसणसिढिलीकरणं, पट्टिअलिंगाइं एआई ॥१॥" अनयोद्वंद्वे इंगिताकारौ ताभ्यां गुरुगताभ्यां संपन्नो युक्तस्तद्वेदितया इंगिताकारसंपन्नः स इति पूर्वोक्तविशेषणयुक्तो विनेयो विनीतो विनयान्वित इत्युच्यते तीर्थकराद्यैरिति सूत्रार्थः॥२॥ अविनीतत्वत्यागेन हि विनीतो भवतीति अविनीतखरूपमाहमूलम्-आणाणिदेसयरे, गुरूणमणुववायकारए । पडिणीए असंबुद्धे, अविणीएत्ति वुच्चई ॥३॥
UTR-1