SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ।। २ ।। - खामी विनयाध्ययनमाह । तस्य चेदमादि सूत्रम्KK मूलम्-संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो। विणयं पाउकरिस्सामि,आणुपुर्वि सुणेह मे ॥१॥ ___ व्याख्या- संयोगाद् द्रव्यतो मातापित्रादिसंबंधाद्भावतश्च कषायविषयादिक्लिष्टतरभावसंबंधात् 'विप्पमुक्कस्सत्ति' | | विविधर्ज्ञानभावनादिभिः प्रकारैः प्रकर्षण परीषहसहनादिरूपेण मुक्तो विप्रमुक्तस्तस्य, अयं भावः “अन्योऽन्यं भवचक्रे, याताः सर्वेऽप्यनन्तशो जीवाः ॥ मात्रादिबन्धुभावं, शत्रुदासीनभावं च ॥१॥” ततः कोऽत्र निजः परो वा ? तथा “कोहो अमाणो अ अणिग्गहीआ, माया य लोभो अपवड्डमाणा ॥ चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥१॥" ततो न देयः कोपादिविपक्षपक्षस्यावकाशः, इत्यादिभावनाभिः खजनादिगोचराभिधंगरहितस्य । तथा-'अणगारस्सत्ति' न विद्यते अगारं द्रव्यतो दृषदादिरचितं गृहं, भावतश्च अनंतानुबंध्यादिकृतं कषायमोहनीयं यस्यासौ अनगारस्तस्य भिक्षोः साधोः विनयं साधुजनासेवितं समाचार, अभ्युत्थानादिकमुपचारं वा प्रादुष्करिष्यामि प्रकटीकरिष्यामि कथयिष्यामीत्यर्थः । 'आणुपुर्वित्ति' आनुपूर्व्या परिपाट्या प्राकृतत्वात्तृतीयार्थे द्वितीया । 'सुणेह मेत्ति' तं विनयं प्रादुष्करिष्यतः सतो मे मम सकाशात् शृणुत श्रवणं प्रति सावधानो भवत, अनेन वाक्येन धर्ममभिधातुकामेन धीधनेन पूर्व श्रोताऽभिमुखः कर्तव्य इति सूचितं, अन्यथा वक्तृवाक्यस्य वैफल्यप्रसंगात्, उक्तं हि-"अप्रतिबद्धे श्रोतरि, वक्तुर्वाचः प्रयान्ति वैफल्यम् । नयनविहीने भर्तरि, लावण्यगुणस्तृणं UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy