________________
उत्तराध्ययन
प्रथमाध्यय. नम् (१)
॥ अहम् ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिभ्यो नमः । महोपाध्यायश्रीमद्भावविजयगणिविरचितविवृत्त्या सहित
उत्तराध्ययनसूत्रम्।
ॐ नमः सिद्धिसाम्राज्य-सौख्यसन्तानदायिने । त्रैलोक्यपूजिताय श्री-पार्श्वनाथाय तायिने ॥१॥
श्रीवर्द्धमानजिनराजमनन्तकीर्ति, वाग्वादिनी च सुधियां जननीं प्रणम्य।
श्रीउत्तराध्ययनसंज्ञकवाङ्मयस्य, व्याख्यां लिखामि सुगमा सकयां च काञ्चित् ॥२॥ नियुक्त्यर्थः पाठा-न्तराणि चार्थान्तराणि च प्रायः। श्रीशान्तिसूरिविरचित-वृत्ते यानि तत्त्वज्ञैः ॥३॥
पूर्वेर्विहिता यद्यपि, बयः सन्त्यस्य वृत्तयो रुचिराः । पद्यनिबद्धकथार्थ, तदपि क्रियते प्रयत्नोऽयम् ॥४॥ इहोत्तराध्ययनानीति कः शब्दार्थः १ उच्यते, उत्तराणि श्रीदशवैकालिकनिष्पत्तेः प्राक् श्रीआचाराङ्गपठनोत्तरकालं पठ्यमानत्वेन दशवकालिकनिष्पत्तेरनु च तत एवोमधीयमानत्वेन, उत्तराणि वा प्रधानान्यध्ययनानि उत्तराध्ययनानि, तानि च षट्त्रिंशत्, तत्र श्रीजिनेन्द्रप्रणीतधर्मकल्पवृक्षस्य विनय एव मूलमित्यादी शासनाधिकारी श्रीसुधर्म
UTR-1