SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सप्तमाध्ययनम् (७) ॥३६९॥ * इति दुःसंहृतं धनं हित्वा द्यूताद्यसद्ययेन, बहु प्रभूतं सञ्चित्योपाय॑ रजोऽष्टप्रकारं कर्म ॥ ८ ॥ ततः कर्मसञ्चया नन्तरं कर्मगुरुः कर्मभारितो जन्तुः, प्रत्युत्पन्नं वर्तमानं तस्मिन् परायणस्तत्परः प्रत्युत्पन्नपरायणः । “एतावानेव लोकोऽयं यावांनिन्द्रियगोचरः" इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इत्यर्थः । 'अएवत्ति' अजः पशुः स चेह प्रक्रमादुरभ्रस्तद्वत् । 'आगयाएसेत्ति' सूत्रत्वात् आदेशे प्राघुर्णके आगते सति, अनेन प्रपञ्चितवेदिविनेयानुग्रहायोक्तमप्युरभ्रदृष्टान्तं स्मारयति, किमित्याह-मरणरूपः अन्तः अवसानं मरणान्तस्तस्मिन् शोचति । अयं भावः शे समागते उरभ्रः शोचति तथाऽयमपि, धिग्मां ! विषयव्यामोहितमतिमुपार्जितगुरुकर्माणं ! हा! क्वेदानी | मया गन्तव्यमित्यादि प्रलापतः खिद्यते, नास्तिकस्यापि प्रायस्तदा शोकसम्भवादिति सूत्रद्वयार्थः ॥९॥ ऐहिकमपायमुक्त्वा पारभविकमाहमूलम्-तओ आउपरिक्खिणे, चुआ देहा विहिंसगा।आसुरीअं दिसंबाला, गच्छंति अवसा तमं॥१०॥ व्याख्या-ततः शोचनान्तरं 'आउत्ति' आयुषि तद्भवसम्बन्धिनि जीवित परिक्षीणे सर्वथा क्षयगते च्युतो भ्रष्टो | * देहाद्विहिंसको विविधैः प्रकारैः प्राणिघातकः 'आसुरीअंति' असुरा रौद्रकर्मकर्मठास्तेषामियं आसुरी तां दिशं भावदिशं नरकगतिमित्यर्थः, बालो अज्ञो गच्छति अवशः परवशः, सर्वत्र बहुवचननिर्देशस्तु एक एव नैतादृशः किन्तु भूयांस इति सूचनार्थ, 'तमंति' तमोयुक्तां गतिविशेषणश्चैतत्, यदुक्तं-निचंधयारतमसा, ववगयगहचंदसूर UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy