SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ।।३६८॥ व्याख्या-हिंस्रः खभावत एव प्राणिघातकः, बालोज्ज्ञः, मृषावादी असत्यभाषकः, अध्वनि मार्गे व्रजतो जनानिति शेषः, विविध सर्वखहरणादिना लुम्पतीति विलोपकः, अन्यैरदत्तं हरतीति अन्यादत्तहरः, स्तेनो ग्रामपुरादिषु चौर्येण कल्पितवृत्तिः, मायी वञ्चनैकचित्तः, 'कं नु हरेत्ति' कमिति कस्वार्थ नु वितर्के हरिष्यामीत्यध्यवसायी कंनुहरः, शठो वक्राचारः ॥ ५॥ स्त्रीषु विषयेषु च गृद्धः, चः समुच्चये, महानपरिमित आरम्भो भूरिजन्तूपमर्दको व्यापारः परिग्रहश्च धनधान्यादिसञ्चयो यस्य स तथा, भुआनः खादन सुरां मद्यं मांसं, परिवृढः पुष्टमांसशोणिततया नानाक्रियासमर्थः, अत एव परंदमोऽन्येषां दमयिता ॥६॥ अजस्य छागस्य कर्करं यद्भक्ष्यमाणं कर्करायते तचेह प्रस्तावादतिपक्कं मांसं तद्भोजी, अत एव तुन्दिलो बृहजठरः, चितलोहितः पुष्टशोणितः, शेषधातूपचयोपलक्षणमेतत् , आयुर्जीवितं नरके सीमन्तकादौ कांक्षतीव कांक्षति, तद्योग्यकारम्भितया कमिव क इवेत्याह-'जहा एसं व एलएत्ति' आदेशमिव यथा एडकः प्रोक्तरूपः । इह च हिंसेत्यादिना सार्यश्लोकद्वयेनारम्भरसगृद्धी प्रोक्ते, आउअमित्यादिना श्लोकार्थेन तु दुर्गतिप्राप्तिरूपोपाय उक्त इति सूत्रत्रयार्थः॥७॥ अथ साक्षादैहिकापायं सूत्रद्वयेनाह-13 मूलम्-आसणं सयणं जाणं, वित्तं कामे अभुंजिआ। दुस्साहडं धणं हिच्चा, बहु संचिणिआरयं ॥८॥ तओ कम्मगुरू जंतू, पञ्चुप्पन्नपरायणे । अएव आगयाएसे, मरणंतंमि सोअई ॥९॥ व्याख्या-आसनं, शयनं, यानं वाहनं, वित्तं, कामांश्च शब्दादीन् , भुक्त्वोपभुज्य, दुःखेन संहियते मील्यते UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy