SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन चतुर्थमध्ययनम् (४) ।। ३२५ ।। मूलम्-मंदा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं न कुज्जा। रक्खिज कोहं विणइज माणं, मायं न सेवे पयहिज लोहं ॥ १२ ॥ व्याख्या-मन्दयन्ति विवेकिनभपि जनमज्ञतां नयन्तीति मन्दाः, च समुच्चये, स्पर्शाः शब्दाद्याः, बहून् लोभयन्ति मोहयन्तीति बहुलोभनीयाः, अनेन तेषामाक्षेपकत्वमुक्तं, 'तहप्पगारेसुत्ति' अपेर्गम्यमानत्वात्तथाप्रकारेष्वपि बहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु मनश्चित्तं न कुर्यान्न निवेशयेत् , एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स च कथं स्यादित्याह-रक्षेन्निवारयेत्क्रोधं, विनयेदपनयन्मानमहङ्कारं, मायां परवञ्चनबुद्धिरूपां न सेवेत न कुर्यात् , 'पयहिजत्ति' प्रजह्याल्लोभमभिष्वङ्गरूपं, तथा च क्रोधमानयोद्देषात्मकत्वान्मायालोभयोश्च रागरूपत्वात्रोधादिनिग्रह एव रागद्वेषपरिहार इति सूत्रार्थः ॥ १२ ॥ अथ यदुक्तं 'तम्हा समुट्ठाय पहाय कामे' इत्यादि-तत्कदाचिचरकादिष्वपि स्यादिति शङ्कापोहार्थमाह मूलम्-जे संखया तुच्छपरप्पवाई, ते पिजदोसाणुगया परज्झा । एए अहम्मुत्ति दुगंच्छमाणो, कंखे गुणे जाव सरीरभेओत्ति बेमि॥१३॥ ॥ इइ चउत्थमज्झयणं सम्मत्तं ॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy