SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ।। ३२६ ।। व्याख्या—ये इत्यनिर्दिष्टखरूपाः संस्कृताः कृत्रिमशुद्धिमन्तो न तु तत्ववेदिनः, अत एव तुच्छा यदृच्छाभिधायितया निःसाराः, परप्रवादिनः परतीर्थिकास्ते प्रेमद्वेषानुगता ज्ञेया इति शेषस्तथाहि सर्वथा सूनृते जिनवाक्येपि या कदाग्रहादप्रतीतिः सा न रागद्वेषाभ्यां विनेति भावनीयं, अत एव 'परज्झत्ति' देश्यत्वात् परवशा रागद्वेषग्रहग्रस्ततया तद्वशाः, यदि ते ईदृशास्तर्हि किं कार्यमित्याह - एते अधर्महेतुत्वादधर्मा इत्यमुनोलेखेन जुगुसमाना उन्मार्गगामिनोऽमी इति तत्खरूपमवधारयन् न तु निन्दन्, निन्दायाः सर्वत्र निषेधात् एवंविधश्च किं कुर्यादित्याह- कांक्षेदभिलषेद्गुणान् ज्ञानदर्शनचारित्रादीन् जिनागमोक्तान्, कियत्कालमित्याह - यावच्छरीरभेदो | देहात् पृथग्भावो मरणमिति यावत्, अनेन च जैनेष्वेव समुत्थानं कामप्रहाणं च तात्विकमन्यत्र तु न तादृशमिति सूचितमिति सूत्रार्थः ॥ १३ ॥ इति ब्रवीमीति प्राग्वत् ॥ ~ ~ ~ ~ ~ ~ ~ ~ ~ इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनि विमलगणि शिष्य भुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्थाध्ययनं सम्पूर्णम् ॥ ४ ॥ லகலகலகண Deneme UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy