________________
।। ३२४ ।।
मधुरै-रालापैः श्रवणामृतः ॥ दासकर्मकरादींश्च, प्रायुत खखकर्मणि ॥९॥ प्रातराशादिकं तेषां, भोजनं समये ददौ ॥ अकालपरिहीणं त-द्वेतनं च यथोदितम् ॥१०॥ एवमावर्जिताः सर्वे, तया कर्मकरादयः ॥ सोद्यम खखकर्माणि, चक्रिरे प्रतिवासरम् ॥ ११ ॥ इत्थं प्रमादादात्मानं, रक्षन्ती सा मनखिनी ॥ नैव व्यनाशयत्किञ्चि-दपि
कृत्यं धनं तथा ॥ १२ ।। गृहशोथ गृहे प्राप्त-स्तामुदीक्ष्याप्रमादिनीम् ॥ सर्वखखामिनी चक्रे, मुदितस्तद्गुणै शम् K॥१३॥ इत्यप्रमादो महते गुणाय, भवेदिहैवापगुणाय चान्यः ॥ तस्मात्परत्रापि भवेद्गुणाया-ऽप्रमाद एवेति चराप्रमत्तः ॥ १४ ॥ इति वणिकपत्नीकथेति सूत्रार्थः ॥ १०॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्त्यागमाह
मूलम्-मुहं मुहं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं ।
फासा फुसंती असमंजसं च, न तेसु भिक्खु मणसा पउस्से ॥१॥ ___ व्याख्या-मुहुर्मुहुर्वारं वारं मोहोपकारिणो गुणा मोहगुणाः शब्दादयस्तान् जयन्तमभिभवन्तं, अनेकानि कार्कश्यकुरूपत्वादीनि रूपाणि येषां ते अनेकरूपाः श्रमणं मुनिं चरन्तं संयमाध्वनि गच्छन्तं, स्पृशन्ति खानि स्वानि इंद्रियाणि गृह्यमाणतया इति स्पर्शाः, शब्दादयस्ते स्पृशन्ति, गृह्यमाणतयैव सम्बध्नन्ति, 'असमंजसं चत्ति' चशब्दस्थावधारणार्थत्वादसमञ्जसमेव अननुकूलमेव यथास्यात्तथा न तेषु भिक्षुः, 'मणसत्ति' अपेर्गम्यत्वान्मनसापि,
आस्तां वाचा कायेन च, प्रद्विष्यात् , अयं भावः-अमनोजशब्दादिषु कथञ्चिदिन्द्रियविषयत्वमापन्नेषु अहो एषाम| निष्टत्वमिति न चिन्तयेत् न वा तान् परिहरेदिति सूत्रार्थः ॥ ११॥ तथा
UTR-1