________________
।। ३२२ ॥
मूलम्-खिप्पं न सक्केइ विवेगमेउं, तम्हा समुठ्ठाय पहाय कामे ॥
__समेच्च लोगं समया महेसी, अप्पाणुरख्खी चरमप्पमत्तो ॥१०॥ व्याख्या-क्षिप्रं तत्क्षण एव न शक्नोति विवेकं द्रव्यतो बहिःसङ्गत्यागरूपं, भावतः कषायापोहात्मकं, एतुं गन्तु कर्तुमित्यर्थः । कृतपरिकर्मा हि द्रुतं तत्परित्यागं कर्तुमलं, न तु तदन्यः, अत्रोदाहरणं, ब्राह्मणी
तथा ह्येको द्विजोऽन्यत्र, गत्वा देशे महामतिः ॥ साङ्गान् वेदानधीत्यागा-स्कृतकृत्यो निजं गृहम् ॥१॥ तस्मै चैकेन विप्रेण, सुरूपा खसुता ददे ॥ लोकाश्च दक्षिणाभिस्तं, वेदज्ञं धनिनं व्यधुः ॥२॥ ततः स स्त्रीकृते भूरी
नलंकारानकारयत् ॥ सापि तान् परिधायास्था-द्भूषितैव दिवानिशम् ॥ ३॥ तां चेत्युवाच तत्कान्तः, कान्ते ! | पर्वोत्सवादिषु ॥ परिधेयाः परिष्कारा, न तु प्रतिदिनं त्वया ॥४॥ तस्करोपद्रवः प्रान्त-ग्रामे बत्र भवेदशम् ॥ KIन चोत्तारयितुं शक्या, द्रुतमेते तदागमे ॥ ५॥ साथ स्माह यदा खामि-नायास्यन्तीह दस्यवः ॥ एतानुत्तारयि
प्यामि, तदाहमविलम्बितम् ॥ ६ ॥ इत्युक्त्वा सा तथैवास्था-न्न तु तानुदतारयत् ॥ सुशिक्षामपि मन्यन्ते, दक्षंमन्या न जन्तवः ॥ ७॥ चौराः केचिच्च तां नित्यं, मण्डितां दृष्टपूर्विणः ॥ तस्या एव गृहेऽन्येधु-विविशुर्जगृहुश्च ताम् ॥ ८॥ नित्यं स्निग्धाशनात्पीन-पाणिपादा तदा च सा ॥ कटकाद्यपनेतुं द्राक् , नानभ्यासादभूत् प्रभुः ॥९॥ ततस्तस्याः करौ छित्त्वा, लात्वा च कटकादिकम् ॥ पाटचरा ययुस्तूर्ण, पापानां हि कुतो दया ? ॥ १०॥ यथा
UTR-1