________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
।। ३२१ ।।
'तम्हत्ति' तस्मात्वातंत्र्यविमुक्तादप्रमादाचरणादेव मुनिः क्षिप्रमुपैति मोक्षं, अत्र पूर्वाणि वर्षाणि इति च एतावदा. र युषामेव चारित्रपरिणामः स्यादिति दर्शनार्थमुक्तमिति सूत्रार्थः ॥ ८॥ ननु ? यदि छन्दोनिरोधेन मुक्तिस्तन्तिकाले * एवायं क्रियतामित्याशङ्कानिरासार्थमाह
मूलम्- स पुत्वमेवं न लभेज पच्छा, एसोवमा सासयवाइआणं ॥
विसीअई सिढिले आउअम्मि, कालोवणीए सरिरस्स भेए ॥९॥ व्याख्या-स इति यत्तदोर्नित्याभिसम्बन्धात् यः पूर्वमप्रमत्तो न स्यात् सोऽप्रमादात्मकं छन्दोनिरोधं 'पुवमेवंति' | एवं शब्दस्य उपमार्थत्वात् पूर्वमिव अन्त्यकालात् प्रागिव न लभेत न प्राप्नुयात् पश्चादन्त्यकालेपि, किञ्च 'एसोवमत्ति'
एषोपमा इयं सम्प्रधारणा यद्वयं पश्चाद्धर्म करिष्याम इति शाश्वतवादिनां निरुपक्रमायुष्कतया शाश्वतमिवात्मानं * मन्यमानानां युज्येतापि, न तु जलबुद्धदसमानायुषामन्येषां, तथा चायमुत्तरकालेपि छन्दोनिरोधमनाप्नुवन् विपी
दति, कथमहमकृतधर्मकर्मा परत्र नरकादिवेदना अनुभविष्यामीति वैक्लव्यमनुभवति, शिथिले आत्मप्रदेशान्मुञ्चत्यायुषि कालेन मृत्युना उपनीते ढौकिते शरीरस्य भेदे सर्वशाटात् पृथग्भावे तस्मादादित एव प्रमादः परिहर्तव्य इति सूत्रार्थः ॥९॥ कथं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभते ? इत्याह
UTR-1