________________
।। ३२०॥
मानो रणाङ्गणे नो वैरिभिरुपहन्यते, इति तन्मोक्षं प्राप्नोति, खतंत्रस्तु पूर्वमशिक्षितो रणस्थानं प्राप्तस्तैरुपहन्यते, * अत्र चायं सम्प्रदायः* तथा टेकेन भूपेन, द्वयोः क्षत्रियपुत्रयोः ॥ दत्तावश्वकिशोरौ द्वौ, शिक्षायै पोषणाय च ॥ १॥ तत्रैकः काल-*
योग्यैस्त-माहारैः पोषयन् शुभैः ॥ अशिक्षयद्वाजिकला, वल्गनोत्प्लवनादिकाः ॥२॥ अन्यस्त्वस्मै शुभं वस्तु, को ददातीति चिन्तयन् ॥ तुषादिकं ददौ तं च, घरटेऽवाहयत्सदा ॥३॥राज्ञा दत्तं च तद्योग्यं, बुभुजे स्वयमेव सः॥ न च वाजिकलां तस्मै, शिक्षयामास काञ्चन !॥४॥अन्यदोपस्थिते युद्धे, राज्ञोक्ताविति तो नरौ ॥ आगच्छतं युवां तूर्ण-मारुह्याचं निजं निजम् ॥५॥ ततस्तौ तुरगारूढी, प्राप्तौ भूभर्तुरन्तिकम् ॥ तदाज्ञया प्राविशतां, मध्येयुद्धमुदायुधौ ॥६॥ तयोरेकः सादिचित्ता-नुवृत्त्या सञ्चरन् हयः॥ सद्यो जगाम सङ्ग्राम-पारं शिक्षागुणान्वितः ॥७॥ अन्यस्तु दुष्टशिक्षावान् , शुभशिक्षाविनाकृतः ॥ तत्रापि भ्रमिमारेभे, घरट्टकनियुक्तवत् ॥८॥ यंत्रभ्रमेण | भ्राम्यन्तं, तं च प्रेक्ष्य तुरङ्गमम् ॥ अशिक्षितोयमित्यन्त-विदांञ्चक्रुः परे भटाः ॥९॥ ततस्तत्सादिनं हत्वा, जगृ- | हुस्तमरातयः ॥ विज्ञेया भावना चैवं, दृष्टान्तस्यास्य धीधनैः ॥ १०॥ आद्यो यथाश्वो निजसादिपार-तंत्र्यात्समिपारमवाप सद्यः ॥ धर्मार्थिनोप्येवमवाप्नुवन्ति, संसारपारं गुरुपारतंत्र्यात् ॥ ११॥ इति वाजिद्वयकथा ॥ अत एव च 'पुवाइंति' पूर्वाणि पूर्वोक्तप्रमाणानि वर्षाणि च चर, सततमागमोक्तक्रियां सेवख, अप्रमत्तः प्रमादपरिहर्ता,
UTR-1