________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
।।३१९ ।।
नृपः ॥ शूलामारोपयत्पाप-कारिणां हि कुतः सुखम् ? ॥ ४५ ॥ यथा चायं मूलदेव-नृदेवेन मलिम्लुचः ॥ अकार्यकार्यपि द्रव्य-लाभं यावदधार्यत ! ॥४६॥ एवं मुनीन्द्रैरपि भूरिदोष-निदानमप्यङ्गमुदारसत्वैः ॥ आनिर्जरालाभमपेक्षणीय-मुपेक्षणीयं च ततोऽन्यथात्वे ॥४७॥ इति यावल्लाभं देहधारणे मण्डिकदृष्टान्त इति सूत्रार्थः ॥७॥ | सम्प्रति यदुक्तं जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं खातंत्र्येणैव ! उतान्यथेत्याहमूलम्-छंद निरोहेण उवेइ मुक्खं, आसे जहा सिक्खिअवम्मधारी ॥
पुवाई वासाइं चरप्पमत्तो, तम्हा मुणी खिप्प मुवेइ मुक्खं ॥ ७ ॥ __ व्याख्या-छन्दोनिरोधेन खच्छन्दतानिषेधेन उपैति मोक्षं मुक्तिं, अयं भावः- गुरुपारतंत्र्येण खाग्रहविरहेण च तत्र तत्र प्रवर्तमानोपि संक्लेशविकलतया न कर्मबन्धभाक् किन्त्वविकलचरणतया निर्जरामेवाप्नोति, गुरुपारतंत्र्येणाप्रवर्तमानश्चाग्रहग्रहग्रस्ततया अनन्तसंसारित्वाद्यनर्थभागेव भवति, यदुक्तं-"छछट्टमदसमदुवालसेहिं मासद्ध| मासखमणेहिं ॥ अकरितो गुरुवयणं, अणंतसंसारिओ होई ॥१॥” तत्सर्वथा गुरुपरतंत्रेणैव मुनिना भाव्यं उक्तञ्च"नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ॥ धण्णा आवकहा ए, गुरुकुलवासं न मुंचंति ॥१॥” अत्र दृष्टान्तमाह-'आसे' इत्यादि-अश्वस्तुरगो, यथा शिक्षितो वल्गनोत्प्लवनधावनादिशिक्षा ग्राहितो, वर्मधारी सन्नाहधरस्ततो विशेषणकर्मधारयः, अनेन शिक्षकपरतंत्रतया खातंत्र्यापोहमाह, ततोयमर्थः-यथाश्वः खातंत्र्यं विहाय प्रवर्त
UTR-1