________________
।। ३१८ ।।
द्राज-पाटिकाकपटाद्वहिः ॥ ३०॥ तं च प्रेक्ष्यापणद्वारे, तीक्ष्णप्रेक्षापणो नृपः ॥ रात्रिदृष्टानुमानेन, प्रत्यभिज्ञातवान् द्रुतम् ॥ ३१॥ दध्यौ च निशि वाजीव, यो जवेन ब्रजन्नभूत् ॥ स एवायं दिने खञ्ज, इव व्याजेन चेष्टते ! ॥ ३२ ॥ खवेश्मनि ततो गत्वा-ऽभिज्ञानाख्यानपूर्वकम् ॥ तमाकारयितुं क्षमापः, प्राहिणोन्निजसेवकान् ॥ ३३ ॥ तैराहूतः स चौरोपि, मनस्येवममन्यत ॥ न हतः स नरो नून-मुत्तालेन मया निशि ! ॥ ३४ ॥ सम्भाव्यते नराधीशः, स एव च पुमान् सुधीः ॥ मां हि प्रत्यभिजानीया-द्भूजानिः कथमन्यथा ? ॥ ३५ ॥ इति ध्यायन् ययौ राज्ञः, समीपे स मलिम्लुचः ॥ तञ्चोपाविविशद्भूपो, महाबुद्धिमहासने ॥ ३६ ॥ आलापयन् सुधाकल्पै-स्तञ्चालापैः सगौरवम् ॥ इत्यूचे पार्थिवो मह्यं, दीयतां भगिनी निजा ॥३७॥ दृष्ट्वा मे भगिनीं नान्यो, निरगान्मद्गहाबहिः ॥ तत्स एवायमित्यन्त-निश्चिकाय स तस्करः ॥ ३८॥ वसा मे गृह्यतां खामि-नित्यूचे च धराधवम् ॥ नृपोपि चाररूपाढ्या-मुपयेमे तदैव ताम् ॥ ३९ ॥ मण्डिकं च महामात्यं, चक्रे नीतिविदां वरः ॥ द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ॥४०॥ ततोऽतिप्रचुरे वित्ते, दत्ते तेन महीपतिः ॥ तं बह्वमानयद्भयो-ऽप्यन्यदानाययद्धनम् ॥४१॥ एवं पुनः पुनः कुर्व-स्तद्वित्तं सकलं नृपः ॥ आनाययद्विदग्धा हि, कार्य बुद्धयैव कुर्वते ! ॥ ४२ ॥ कियन्मात्रमथ द्रव्य-मस्ति त्वत्सोदरान्तिके ॥ इत्यन्यदा तत्वसार- मप्राक्षीच क्षमाप्रभुः ॥४३॥ धनमेतावदेवाभूद-स्वेत्युक्ते तया च राटू ॥ लेख्यकस्यानुसारेण,तत्पौराणामदापयत् ॥४४॥ मण्डिकञ्च प्रचण्डाज्ञो, विडम्ब्य निविडं
UTR-1