________________
।। ३१६ ।।
वेण्णापुरे तुन्न- कारो मण्डिकसंज्ञकः ॥ परखहरणासक्तो - ऽभवन्मायानिकेतनम् ॥ १ ॥ स च मे त्रणमस्तीति, जानुबद्धपटच्चरः ॥ राजमार्गे स्थितश्चक्रे, वासरे तुन्नकारताम् ॥ २ ॥ रात्रौ तु धनधामभ्यो, धनं हृत्वा पुराद्वहिः ॥ उद्यानस्थे भूमिगेहे, निचिक्षेपानुवासरम् ॥ ३ ॥ तत्र चासीत्खसा तस्य, कन्यका प्राप्तयौवना ॥ कूपचैकोऽभवत्तत्रो-पकण्ठन्यस्तविष्टरः ॥ ४ ॥ यं च प्रलोभ्यानयति, स चौरो भारवाहकम् ॥ तमुपावीविशत्कूपपार्श्वस्थासने तत्वसा ॥ ५ ॥ पादशौचमिषात्पादे धृत्वान्धौ न्यक्षिपच्च तम् ॥ इत्थं तस्यात्यगात्कालो, मुष्णतः सकलं पुरम् ॥ ६ ॥ पिशाचमिव तं धर्तु, पुरारक्षोपि नाशकत् ॥ पूर्वोक्तो मूलदेवाह्न - स्तत्र चाभून्नृपस्तदा ॥ ७ ॥ तत उद्वेजितास्तेन, राक्षसेनेव दस्युना || पौराः सर्वे मूलदेव - भूपमेवं व्यजिज्ञपन् ॥ ८ ॥ खामिन् ! केनापि चौरेण, प्रत्यहं मुष्णता पुरम् ॥ व्रतं विनापि निर्ग्रन्थो, निर्ममे निखिलो जनः ! ॥ ९ ॥ स च ग्रहीतुं केनापि शक्यते न महीपते ! | पाहि पाहि प्रजाः सर्वा - स्तस्मादस्मादुपद्रवात् ! ॥ १० ॥ सद्यस्तं निग्रहीष्यामीत्युक्त्वा पौरान् विसृज्य च ॥ नृपश्चक्रेन्यमारक्षं, तं धर्तु सोऽपि नाशकत् ! ॥ ११ ॥ ततो निशि स्वयं श्यामां - शुकं प्रावृत्य भूपतिः ॥ शङ्कास्थानेषु बभ्राम, न तु तस्करमैक्षत ! ॥ १२ ॥ श्रान्तो भूपस्ततो यावत्सभायामखपीत्क्वचित् ॥ कोत्रा - स्तीति वदंस्ताव - तत्रोपेयाय मण्डिकः ॥ १३ ॥ अहं कार्पटिकोऽस्मीति, समयज्ञोऽवदन्नृपः ॥ एहि त्वामीश्वरं कुर्वे, मण्डकोप्येवमब्रवीत् ॥ १४ ॥ भुजिष्य इव भूजानि - स्ततो मण्डिकमन्वगात् ॥ स्वकार्यसिद्धयै दक्षो हि, नीचम -
UTR-1