SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन चतुर्थमध्ययनम् (४) ।। ३१५ ॥ मूलम्- चरे पयाइं परिसंकमाणो, जं किंचि पास इह मन्नमाणो ॥ लाभंतरे जीविअ वूहइत्ता, पच्छा परिणाय मलावधंसी ॥७॥ व्याख्या-चरेद्गच्छेन्मुनिरिति शेषः, पदानि पादनिक्षेपरूपाणि परिशङ्कमानः, मा मे संयमविराधना भूयादिति परिभावयन् तथा 'जं किंचित्ति' यत्किञ्चिद्दुश्चिन्तिताद्यपि प्रमादपदं पाशमिव पाशं बन्धहेतुतया मन्यमानो जानानः, अयं भावः- यथा भारुण्डपक्षी पदानि परिशङ्कमानश्चरति, यत्किञ्चिद्दवरकाद्यपि पाशं मन्यमानस्तथा साधुरप्यप्रमत्तश्चरेत् । ननु ? यदि परिशङ्कमानश्चरेत्तर्हि पूर्वोक्तदोषपरिहारार्थमादित एवाऽनशनं कुरुतामित्याशङ्कानिरासार्थमाहलाभान्तरे अपूर्वार्थप्राप्तिरूपे सति, अयं भावः-यावद्विशिष्टविशिष्टतरसम्यग्दर्शनज्ञानाद्यवाप्तिरितः सम्भवति ताव- दिदं जीवितं प्राणधारणरूपं बृंहयित्वा, अकालोपक्रमरक्षणेन अन्नपानोपयोगादिभिश्च वृद्धिं नीत्वा पश्चाल्लाभविशे-ar पप्राप्तेरुत्तरकालं परिज्ञाय सर्वप्रकारैरवबुध्य यथेदं नेदानीं प्राग्वद्गुणविशेषार्जनक्षमं, न चातस्तादृशी निर्जरा, न च | जरया व्याधिना चाभिभूतं तत्तथाविधधर्मध्यानं प्रति समर्थमिति ज्ञपरिज्ञया ज्ञात्वा ततः प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्याय सर्वथा जीवितनिरपेक्षो भूत्वेति भावः, मलापध्वंसी कर्ममलविनाशी स्यादिति शेषः, यद्वा मलाश्रयत्वान्मल औदारिकं शरीरं, तदपध्वंसी स्यात्तन्निरपेक्षो भवेदिति भावः । ततो यथागमं प्रवर्त्तमानस्य यावल्लाभं देहधारणमपि गुणायैवेति स्थितम् । इह च यावल्लाभं देहधारणे मण्डिकदस्युरुदाहरणम् , तत्रायं वृद्धवादः । तथाहि UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy