________________
।। ३१४ ।।
* क्षिभिर्दिधापि, श्रयणीयः प्रतिबुद्धजीविभावः ॥ ३३४ ॥ इति द्रव्यभावनिद्रात्यागेऽगडदत्तसाधुकथा ॥ * प्रतिबुद्धजीवी सन् किं कुर्यादित्याह-'नवीससे' इत्यादि-न विश्वस्यात्प्रमादेष्विति गम्यते, अयं भावः-बहुजनादृत
त्वात् प्रमादा नानर्थकारिण इति विश्रम्भवान्न भवेत् ,पण्डितो विद्वान्। आशु शीघ्रमुचितकृत्येषु प्रवर्तितव्यमिति प्रज्ञा
यस्य स आशुप्रज्ञः, कुतश्चायमाशुप्रज्ञो ? यतो घोरा रौद्राः सततमपि प्राणापहारिणो मुहूर्ताः कालविशेषा दिवसाद्य* पलक्षणं चैते, कदाचिच्छारीरबलात् घोरा अप्यमी न प्रभविष्यन्तीत्यत आह-अबलं बलरहितं मृत्युदायिनो मुहूर्ता-1 | निराकर्तु विसोढुं वा असमर्थं शरीरं वपुः, उक्तञ्च-"सत्थगीजलसावय-वीसूइआवाहिअहिविसाईहिं ॥ जजरमिणं * सरीरं, उवक्कमेहिं बहुविहेहिं ॥१॥ ज ऊसासायत्तं, देहं जीवस्स कयलिखंभसमं ॥ जरडाइणिआवासं, का कीरउ तत्थ दीहासा !॥२॥” तर्हि किं कार्यमित्याह-भारुण्डपक्षीव चराऽप्रमत्तः, यथा भारुण्डपक्षी अप्रमत्तश्चरति, | तथा त्वमपि प्रमादरहितश्चर, विहितानुष्ठानमासेवख, अन्यथा तु यथा भारुण्डपक्षिणः पश्यन्तरेण सह साधारणस्य | मध्यवर्त्तिचरणस्य सम्भवात्सल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः, उक्तञ्च-"एकोदराः पृथग्ग्रीवा, अन्यान्यफलकां-| क्षिणः ॥ प्रमत्ता हि विनश्यन्ति, भारुण्डा इव पक्षिणः ॥ १॥” तथा तवापि प्रमाद्यतः संयमजीविताद्भश एवेति | सूत्रार्थः ॥ ६॥ अमुमेवार्थ स्पष्टयन्नाह
UTR-1