________________
।।३१२ ॥
सोऽथ, तज्जायारूपमीक्षितुम् ॥ चिरसङ्गोपितं दीप-माविश्चक्रे समुद्कात् ॥ ३०६ ॥ ततो निरीक्ष्य तं जाता-नुरागा सैवमब्रवीत् ॥ सौम्य ! त्वं भव भर्त्ता मे, मरिष्यामि न चेदहम् ॥ ३०७ ॥ मुग्धे ! त्वां कामये काम, विभेमि त्वत्पतेः परम् ॥ तेनेत्युक्ता च सा क्रूरा-शया पुनरदोवदत् ॥ ३०८ ॥ अधुनाहं हनिष्यामि, स्वपतिं तव पश्यतः॥ तन्मा भैषीस्तयेत्युक्तः, स दीपं निरवापयत् ॥ ३०९ ॥ अचिन्तयच यो मर्तु-मुद्यतोऽभूत्सहानया ॥ कान्तं तमपि | दुष्टेयं, मयि रक्ता जिघांसति !॥ ३१॥ हरिद्रारागया तन्मे, कृतमङ्गनयानया ॥ विषवल्लीमिव क्रूरो-दो नारी
हि कः श्रयेत् ? ॥ ३११ ॥ अस्या दुष्टस्त्रिया योगा-द्विद्यते मृत एव यः ॥ विपक्षस्यापि तस्याथ, मारणं नो न | युज्यते ॥ ३१२ ॥ तत्सर्वथा वराकं तं, जीवयिष्यामि साम्प्रतम् ॥ तत्रैवं चिन्तयत्येव, सोऽप्यागादात्तपावकः
॥ ३१३ ॥ आगच्छता मयोद्योतो, दृष्टः कुत इहाधुना ॥ खकान्तामित्यपृच्छच्च, ततः सा कुटिलाब्रवीत् ॥ ३१४ ॥ | खपाणिस्थज्वलद्वढे, प्रकाश इह सङ्क्रमात् ॥ दृष्टो भावीति तन्मेने, सरलः सोऽपि सूनृतम् ॥ ३१५ ॥ अथ पत्याः प्रदायासिं, तस्मिन् धमति पावकम् ॥ कोशात्कृपाणमाकृष्य, घातं यावन्मुमोच सा ॥ ३१६ ॥ तावत्कृपारसाम्भोधि-रसौ भिलाधिपानुजः ॥ अपहस्तेन हत्वासिं, पातयामास भूतले ॥३१७ ॥ तच स्त्रीचरितं प्रोचे, सोदराणां स दारुणम् ॥ ततो विरक्ताः सर्वेऽमी, व्रतं लातुमिहाययुः ॥ ३१८ ॥ कुमारेदं तव प्रोक्त-मेषां वैराग्यकारणम् ॥ तदाकातिसम्भ्रान्तः, कुमारो ध्यातवानिति ॥ ३१९ ॥ अहो ! चरित्रं नारीणां, दारुणेभ्योऽपि दारुणम् ॥ अहो!
UTR-1