SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन चतुर्थमध्य. यनम् (४) ।। ३११ ।। त्रकांक्षिणः ॥ कुमारोऽवसरं प्राप्य, पप्रच्छेति कृताञ्जलिः ॥ २९२ ॥ रूपलावण्यतारुण्य-पुण्याः पञ्च नरा अमी॥ खामिन् ! दीक्षां जिघृक्षन्ति, कुतोहेतोस्त्वदन्तिके ॥ २९३ ॥ गुरुर्जगाद चमरी-संज्ञा पल्लीह विद्यते॥ धरणीधरनामासी-द्भिल्लेशस्तत्र दुर्धरः॥ २९४ ॥ अन्यदा नृपभूः कश्चि-दागात्तद्धवि सैन्ययुक् ॥ सेनामनाशयत्तस्य, भिल्लेशो भिल्लवृन्दयुक् ॥ २९५ ॥ नाशिते भिल्लचके च, कुमारेण तरखिना ॥ स्तेनेशस्तेन युयुधे, न त्वेकोप्यजयत्परम्॥२९६॥ ततः कुमारः खां नारी, पुरश्चके मनोरमाम् ॥ तां च प्रेक्ष्य क्षुब्धचित्तं, सोवधीगिलभूपतिम् ॥ २९७ ॥ कुमारे च गते पञ्च, सोदराः शबरप्रभोः ॥ तदाययुर्विपन्नं चा-पश्यन् ज्येष्ठसहोदरम् ॥ २९८ ॥ ततस्ते वैरशुद्ध्यर्थ, रथाध्वानमनुश्रिताः॥ प्राप्ताः शङ्खपुरेऽद्राक्षु-स्तं कुमारं भटैर्वृतम् ॥ २९९ ॥ कुमारमारणच्छिद्रं, वीक्षमाणाश्च तेऽन्यदा ॥ उद्याने ददृशुः सायं, तं स्त्रीमात्रपरिच्छदम् ॥ ३०० ॥ तदा तन्मारणोपायं, तेषु ध्यायत्सु भोगिना ॥ दष्टा तस्यागना तां च, कुमारो ज्ञातवान् मृताम् ॥ ३०१॥ ततस्तया समं मोहात् , कुमारे मर्तुमुद्यते ॥ आयातं खेचरयुगं, कृपया तामजीवयत् ॥ ३०२॥ विहायोद्यानमासन्ने, गत्वा देवकुले ततः ॥ विमुच्य कामिनी तत्र, कुमारो वह्नये ययौ ॥ ३०३ ॥ चिरालब्धच्छलास्ते तु, छन्नं देवकुले स्थिताः ॥ अत्रागतममुं हन्म, इति पञ्चाप्यचिन्तयन् ॥३०४॥ अन्यानिवार्य चतुरः, चतुरश्छद्मकर्मणि ॥ तद्विघातैकनिष्ठोऽस्था-कनिष्ठो द्वारसन्निधौ ॥ ३०५ ॥ विस्मेरकौतुकः १ तौ चिरं चक्रतुयुद्धं । इति 'ग' संज्ञकपुस्तके । UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy