________________
।। ३१०।।
दृश्यते ? ॥ २७७ ॥ सा प्रोचे खकरस्थस्य, वह्वेर्दीप्तस्य वायुना ॥ आलोक इह संक्रान्तो, दृष्टो भावी प्रिय ! त्वया ॥ २७८ ॥ ततः प्रियायै दत्वासिं, निधाय भुवि जानुनी ॥ धमत्यधोमुखो धूम-ध्वजं यावन्नृपाङ्गजः ॥२७९ ॥ तावत्तस्याः करात्कोश-विहीनोऽसिस्तदग्रतः ॥ पपात गुरुनिर्धातो, विद्युदण्ड इवाम्बुदात् ॥ २८ ॥ कृपाणः कोशहीनोऽय-मपतद्भूतले कुतः ? ॥ सम्भ्रान्तेनाऽथ तेनैव-मपृच्छयत नितम्बिनी ॥ २८१॥ संमोहव्याकुलं चेतः, साम्प्रतं मेऽभवद्भृशम् ॥ ततोऽयं न्यपतत्पाणेः, कृपाण इति साऽब्रवीत् ॥ २८२ ॥ ततो ज्वलनमुज्वाल्य, रात्रिं
तत्रातिवाह्य च ॥ प्रातर्जायापती खीय-सौधे तौ मुदितौ गतौ ॥ २८३॥ वृत्तान्तं तं च बन्धूना-मूचतुः खेदहर्ष* दम् ॥ सुखं चाभजतां नित्यं, पञ्चगोचरगोचरम् ॥ २८४ ॥ अन्यदा भूपभूर्वाह-वाहनार्थ बहिर्गतः ॥ निन्येऽरण्येऽ
पहृत्याशु, कक्रशिक्षितवाजिना ॥ २८५ ॥ तत्र चायं भ्रमन्नेक-मद्राक्षीचैत्यमुत्तमम् ॥ किमिहाद्भुतवीक्षार्थ, सिद्धस- | माऽऽगतं दिवः ॥ २८६ ॥ चैत्यस्य तस्य पार्थे च, कल्पद्रुरिव जङ्गमः ॥ चतुर्ज्ञानधरः साम्य-सुधारसमहोदधिः | | ॥ २८७॥ तित्रातैः परिवृतः, पुरन्दर इवामरैः ॥ आश्रयः श्रेयसां श्रेष्ठ-रत्नानामिव रोहणः ॥ २८८ ॥ भासमानो गुरुगुणै-महोभिरिव भास्करः॥ जितेन्द्रियत्वरूपाभ्यां, कलाकेलिकलां हरन् ॥ २८९ ॥ चारणश्रमणस्तेन, नयनानन्दचन्द्रमाः ॥ अदर्शि साहसगति-र्नाम्ना धाम्ना रविं जयन् ॥ २९०॥ [चतुर्भिःकलापकम् ] ततः प्रणम्य तं भक्त्या, प्राप्ताशीरुपविश्य च ॥ शुश्राव भूपभूधर्म-देशनां क्लेशनाशिनीम् ॥ २९१॥ तत्र च प्रेक्ष्य पुरुषान् , पञ्च चारि
UTR-1