________________
।।३०८ ।।
भूपीठ-न्यस्तशस्तखमस्तकः ॥ २४८ ॥ ततः प्रमोदाश्रुजल-क्लिन्ननेत्रो धराधवः ॥ तमालिंग्य निवेश्याङ्के, मूर्ध्नि जघौ मुहुर्मुहुः ॥ २४९ ॥ उत्तम्भितध्वजे बद्ध-तोरणे खपुरे च तम् ॥ प्रियाद्वयान्वितं हस्त्या-रूढं प्रावीविशन्नृपः॥२५०॥ ततो गतो गृहेऽनंसी-त्स सवित्रीं वधूयुतः ॥ पुत्र ! त्वमक्षयो भूया, इति साप्याशिषं ददौ॥ २५१॥भोजनानन्तरं | पित्रा, पृष्टः पुत्रो यथातथम् ॥ सर्व खवृत्तमाचख्यौ, सर्वेषां विस्मयावहम् ॥ २५२ ॥ ततो राज्ञा यौवराज्ये, स्थापितो |
मोदयन् जनान् ॥ कुर्वाणो विविधाः क्रीडाः, स कालं कश्चिदत्यगात् ॥ २५३॥ अन्यदानङ्गभूपाज्ञा-वर्त्तिनं जनयन् al जनम् ॥ द्रुमान् विभूषयन् सर्वान् , मानवानिव यौवनम् ॥ २५४ ॥ मानिनीमानकुट्टाक-कलकोकिलकूजितः ॥
मत्तद्विरेफझंकार-मुखरीकृतदिग्मुखः ॥ २५५ ॥ विप्रयुक्तवधूधैर्य-लुण्टाकमलयानिलः ॥ मदमुत्पादयन् यूनां,प्रावतत मधूत्सवः ॥ २५६ ॥ [त्रिभिर्विशेषकम् ] तदा च रन्तुमुद्यानं, पार्थिवः पौरसंयुतः ॥ ययौ कृताह्वानमिव, | वातोद्भूतद्रुपल्लवैः ॥ २५७ ॥ समं मदनमंजर्या, तत्रागाद्भपभूरपि ॥ सविस्मयं सकामंच, पौरदारैर्निरीक्षितः॥२५८॥ दोलान्दोलनपानीय-क्रीडापुष्पोच्चयादिभिः ॥ स तत्र कान्तया साकं, रेमे हरिरिव श्रिया ॥२५९ ॥ रामं रामं यथाकाम, विनोदैर्विविधैरथ ॥ अपराह्ने पुराधीशः, समं पौरैः पुरे ययौ ॥ २६० ॥ रतिप्रियः कुमारस्तु, विसृष्टान्यपरिच्छदः ॥ प्रियाद्वितीयः सुचिरं, रन्त्वा यावत्पुरे व्रजेत् ॥ २६१ ॥ तावत्प्राणप्रिया तस्य, दष्टा दुष्टेन भोगिना ॥ उत्सङ्गे न्यपतत्पत्यु-र्दष्टाहमिति वादिनी ॥ २६२ ॥ ततो मंत्रादिभिर्याव-तां चिकित्सति भूपभूः ॥ तावत्सा गरल
UTR-1