________________
।। ३०६ ।।
"
इव गुर्वाज्ञां, ते तु तां नैव मेनिरे ॥ २१८॥ विषमिश्रं च तद्भोज्यं, भुक्त्वा द्राग् मृत्युमाप्नुवन् ॥ ततोऽधावच्छरान्मुञ्चन् कुमारं प्रति स व्रती ॥ २१९ ॥ कुमारोऽप्यर्धचन्द्रेण, हत्वा मर्माणि मर्मवित् ॥ पातयामास तं पृथ्व्यां, ततः सोप्येवमत्रवीत् ॥ २२० ॥ अहं दुर्योधनाह्वान - श्रौरः केनाप्यनिर्जितः ॥ त्वयैकेनैव वाणेन, प्रापितः प्राणसंशयम् ॥२२१॥ त्वद्वीर्यं वीक्ष्य तुष्टोन्त-वैच्मि ते सूनृतं वचः ॥ वामतोऽस्माद्गिरेर्मध्ये, नद्योरस्ति सुरालयः ॥ २२२ ॥ तस्य पश्चिमभागे च, सजिता विद्यते शिला ॥ तां प्रेर्य प्रविशेर्वाम-भागस्थे भूमिधामनि ॥ २२३ ॥ तत्रास्ति रूपलावण्य - पुयाङ्गी नवयौवना || नाम्ना जयश्रीः पत्नी मे, द्रविणं चातिपुष्कलम् ॥ २२४ ॥ तत्सर्वमात्मसात्कुर्या दद्याश्चाग्निं मृतस्य मे ।। वदन्नेवं क्षणाद्दस्यु - दीर्घनिद्रामवाप सः ॥ २२५ ॥ ततो दारूणि संमील्य, तं प्रज्वाल्य महीशसूः ॥ रथमारुह्य तत्प्रोक्ते,ययौ देवकुले द्रुतम् ॥ २२६ ॥ शिलां चोद्घाट्य तेनोच्चैः शब्दिता दस्युसुन्दरी ॥ मध्येसौधं समेहीति, समेत्य तम भाषत ॥ २२७ ॥ तद्रूपं च जगज्जैत्रं, कुमारो यावदैक्षत ॥ तं जघानापहस्तेन, तावन्मदनमंजरी ॥ २२८ ॥ इति चाख्यन्मया सख्यः, पितरौ स्वजनास्तथा ॥ त्यक्तास्तव कृते त्वञ्चा - ऽत्रपः कामयसे पराम् ॥ २२९ ॥ ततोऽसौ मा भवत्वस्या, विषाद इति चिन्तयन् ॥ विहाय वित्तयुक्तां तां, रथारूढः पुरोऽचलत् ॥ २३० ॥ लङ्घमानश्च गहनं, गहनं स्त्रीचरित्रवत् ॥ पुलिन्दवृन्दमुत्रस्त - मपश्यन्नश्यदुच्चकैः ॥ २३१ ॥ किमस्ति मत्तहस्तीति, ध्यायंश्चायं व्यलोकयत् ॥ यावंत्सर्वादिशस्ताव - ददर्शकं मतङ्गजम् ॥ २३२ ॥ उदस्तेन खहस्तेन, पातयन्तं पतत्रिणः ॥ मूलादप्युन्मूलयन्तं, पादपान्
UTR-1