________________
॥३०४॥
मुहुः ॥ १८९ ॥ साश्चर्य वनदेवीभि-/क्षितौ वीरकुअरौ ॥ ततस्तौ चक्रतुर्बाणा-बाणि तुल्यबलौ चिरम् ॥ १९०॥ | [त्रिभिर्विशेषकम् ] न त्वेकोपि जयं लेभे, ततो दध्यौ नृपात्मजः ॥ जय्योऽसौ नौजसा तस्मा-च्छलेनापि जयाम्यमुम् ॥ १९१ ॥ विमृश्येति धराधीश-सूनुर्मदनमंजरीम् ॥ कारितोदारशृङ्गारां, पुरः खस्य न्यवीविशत् ॥१९२॥ तां च प्रेक्ष्य सुरीकल्प-रूपां मोहितमानसम् ॥ कुमारस्तीक्ष्णबाणेन, हृन्मर्मणि जघान तम् ॥ १९३ ॥ ततः स भिल्लभूमीशः, पतितः पृथिवीतले ॥ घातव्यथाकुलोप्येवं, कुमारं प्रत्यभाषत् ॥ १९४ ॥ अहं हि स्मरवीरेण, हतपूर्व
स्त्वया हतः ॥ तन्मयायं हत इति, स्मयं मास्म कृथा वृथा ॥ १९५ ॥ इत्युदीर्य मृते तस्मिन् , भूपभूः खपरिच्छ|| दम् ॥ प्रेक्षमाणोपि नैशिष्ट, नंष्ट्वा क्वापि गतं तदा ॥ १९६ ॥ एकेनैव स्यन्दनेन, ततो गच्छन्नपाङ्गजः ॥ उल्लंघ्य * तामरण्यानी-मेकं गोकुलमासदत् ॥ १९७ ॥ निर्गत्य गोकुलाच द्वौ, पुरुषो तमपृच्छताम् ॥ व यास्यतीति स
स्माह, यामि शङ्खपुरे ह्यहम् ॥ १९८ ॥ आवामपि त्वया सार्ध-मागच्छावो यदीच्छसि ? ॥ इति ताभ्यां पुनः पृष्टोऽवादीदोमिति भूपभूः ॥ १९९ ॥ रथे चाश्ची योजयन्तं, तमेवं ताववोचताम् ॥ अस्त्यत्र मार्गे कान्तारं, क्रूरश्वापदसङ्कुलम् ॥ २०० ॥ चौरो दुर्योधनाह्वान-स्तत्र तिष्ठति दुर्जयः ॥ मत्तो हस्ती ग्विषश्च, व्यालो व्याघ्रश्च दारुणः ॥ २०१ ॥ तदध्वानममुं मुक्त्वा, सौम्य ! गच्छाधुनामुना ॥ सोपद्रवं हि पन्थान-मृजुमप्याश्रयेत कः ? ॥ २०२॥ प्रोचे कमारोस्मिन्नेव, मार्गे गच्छत निर्भयाः ॥ ससुखं प्रापयिष्यामि, युष्मान् शङ्खपुरे द्रुतम् ॥ २०३॥ तच्छुत्वा
UTR-1