________________
।।२९८ ॥
वीर-नराणां हि महाव्रतम् ॥ शिरश्छेदेऽपि तद्वीरः, खांप्रतिज्ञा न मुञ्चति !॥ १०२॥ ततः प्रतिज्ञानिर्वाहः, कार्य एव मयाधुना ॥ ध्यात्वेत्यादि कुमारोगा-दपराहे पुराबहिः !॥ १०३॥ अधो रसालसालस्य, कस्यचित्संस्थितोऽथ सः ॥ विद्याभ्रष्टः खेचरेन्द्र इवापश्यद्दिशोखिलाः ॥१०४॥ अत्रान्तरे च तत्रैकः, परिव्राजक आययौ ॥ त्रिदण्डकुण्डिकामाली, मुण्डमौलिमहाबलः ॥१०५॥ रक्ताक्षं हस्तिहस्ताभ-हस्तं कर्कशकुन्तलम् ॥ रौद्राकारं दीर्घजङ्घ-मजिनोद-13 द्धपिण्डिकम् ॥१०६॥ तं वीक्ष्य मापभूनून-ममीभिर्देहलक्षणैः। तस्करोयमिति ध्यायन् , परिबाजेत्यभाषत ॥१०७॥ [ युग्मम् ] कोसि त्वं हेतुना केन, चिन्ता चान्तश्च दृश्यसे ? ॥ ततः कुमारो धिषणा-धिषणस्तमदोवदत् ॥१०८॥ दारिद्यविद्रुतः शून्य-खान्तः खामिन् ! भ्रमाम्यहम् ॥ परं पराभवस्थानं, विशां दारिद्यमेव हि ॥१०९॥ अद्य छिनमि ते दौःस्थ्य-मित्यूचेऽथ त्रिदण्डिकः॥ सोप्यूचे सर्वमिष्टं मे, भावि युष्मत्प्रसादतः ॥११०॥ तदा चोरुनभोमार्गो-लंघनोत्थश्रमादिव ॥ पश्चिमाम्भोनिधौ तूर्ण, मजति स्म नभोमणिः॥१११॥ ततोऽर्ककान्तविश्लेषो-त्पन्नशोकभरैरिव ॥ दिगङ्गनासु मालिन्य-मुपेतासु तमोभरैः ॥ ११२॥ कोशात्कृपाणमाकृष्य, बढ्दा परिकरं च सः॥प्रोचे कुमारमे।हि, यथा कुर्वे तवेहितम् ! ॥ ११३॥ [युग्मम् ] इत्युदीर्य समं तेन, गत्वा पुर्या स तस्करः ॥ क्वचिदिभ्यगृहेऽकार्षीरक्षानं श्रीवत्ससंस्थितम् ॥ ११४ ॥ तेन क्षात्रेण गेहान्तः, प्रविश्य निभृतक्रमम् ॥ पेटाः पाटचरो बही, वित्तापूर्णाः समाकृषत् ॥ ११५॥ तद्रक्षायै कुमारं च, तत्र संस्थाप्य तस्करः ॥ प्रलोभ्य दुःस्थानानिन्ये, सुप्तान्देवकुलादिषु
UTR-1