SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन चतुर्थमध्ययनम् (४) ।। २९७ ।। कुमारो गुणसेवधिः ॥ ८८ ॥ इति श्रुत्वा गुणास्तस्य, राज्ञि रोमाञ्चमञ्चति ॥ उपदापाणयः पौरा-स्तत्राजग्मुः सहस्रशः॥ ८९॥ ते मुक्त्वा प्राभृतं नत्वा, नृपं चोपाविशन् पुरः ॥ प्राभृतं तत्तु भूजानिः, कुमाराय ददौ मुदा॥९॥ अथ ते नागरा इत्थं, नरनाथं व्यजिज्ञपन् ॥ खामिनियं पूरी पूर्व-मासीत्वर्गपुरीसमा ॥९१॥ सा तस्करेण केना-* पि, मुष्यमाणा प्रतिक्षणम् ॥ जातास्ति रोरसदन-प्राया तद्रक्ष रक्ष ताम् ॥ ९२ ॥ ततोब्रवीत्पुरारक्ष- मेवं क्रुद्धो नराधिपः ॥रे ! सत्यपि त्वयि कथं, मुष्यते दस्युना पुरी ? ॥ ९३ ॥ पुरारक्षोऽवदद्देव !, भूयांसो दिवसा गताः॥ ममान्वेषयतश्चौरं, न तु प्रापं करोमि किम् ? ॥ ९४ ॥ अत्रान्तरे नृपं नत्वा-ऽगडदत्तो व्यजिज्ञपत् ॥ समादिशत मां खामिन् !, यथा गृह्णामि तस्करम् ॥ ९५ ॥ सप्तभिर्वासरैश्चौरा-ऽलामे त्वग्नौ विशाम्यहम् ॥ ततोतिविस्मितः मापः, स्माह साधय कामितम् ! ॥ ९६ ॥ ततोभिनम्य भूजानि-मनुद्विग्नमनाः वयम् ॥ वभ्राम भूपभूश्चौर-वी. क्षायै परितः पुरीम् ॥ ९७ ॥ मठप्रपादेवकुल-वेश्याशौण्डिकवेश्मसु ॥ मालिकबूतकारादि-स्थानेषु विपिनेषु च ॥९८ ॥ प्रत्यहं कुर्वतस्तस्य, परिमोषिगवेषणम् ॥ षड् दिनानि ययुः किन्तु, नाससाद स तं क्वचित् ॥९९॥ [युग्मम् सप्तमेऽह्रि कुमारोऽथ, चिन्ता चान्तो व्यचिन्तयत् ॥ मुधा सन्धां व्यधामेना-महं जीवितनाशिनीम् ! ॥ १० ॥ तत्तामादाय वामाक्षी, क्वचिदन्यत्र याम्यहम् ॥ यद्वा वयं प्रतिश्रुत्य, करोमि कथमन्यथा ? ॥१०१॥ प्रतिज्ञापालनं १ मध्येसप्तदिनं चौरा-लाभे त्वग्नौ विशाम्यहम् ।। इति 'ग' संज्ञकपुस्तके ।। UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy