________________
।। २९२ ।।
दत् ॥ १४ ॥ अरे ! कुमारं वदत, यन्मे देशागज द्रुतम् ! ॥ अतः परं तवान्यायं, सहिष्ये न हि सर्वथा ! ॥१५॥ पुत्रोप्यन्यायकृन्याय-तत्परैः परिहीयते ॥ न हि कर्णापहं वर्ण, केनापि परिधीयते ! ॥ १६ ॥ इदश्च वचनं राज्ञो, जनश्रुत्या निशम्य सः ॥ खड्गपाणिरहङ्कारा-कुमारो निरगादहिः ॥ १७ ॥ उलंघ्याद्रिसरिद्राम-पुरारण्यानि भूरिशः ॥ गङ्गाजलाप्लुताभ्यणी, पुरीं वाराणसी ययौ ॥ १८ ॥ स चापरिचितत्वेन, केनाप्यविहितादरः ॥ बभ्राम विमनास्तत्र, यूथभ्रष्ट इवैणकः ॥ १९॥ भ्रमंश्चैवं महात्मानं, शास्त्राकूपारपारगम् ॥ कृपावन्तं पापभीरु, गम्भीरमुपकारिणम् ॥ २०॥ रथाश्वगजशिक्षाश्च, शिक्षयन्तं नृपाङ्गजान् ॥ क्वचित्पवनचण्डाख्यं, कलाचार्य स दृष्टवान् ॥२१॥ [युग्मम् ] तं च प्रेक्ष्य कुमारोन्त-रविन्दत परां मुदम् ॥ निर्वापयन्ति सन्तो हि, दर्शनेनापि चन्द्रवत् ॥ २२॥ अमुं कलाचार्यरविं, प्रतिभाभानुभासुरम् ॥ श्रये तमोपनोदार्थ-मिति चान्तरचिन्तयत् ॥ २३॥ तत्पादकमले नत्वो-पाविशच तदन्तिके ॥ कुतस्त्वमागा इति तं, कलाचार्योऽपि पृष्टवान् ॥ २४ ॥ एकान्तेऽथ तमाहूय, कुमारश्चरितं निजम् ॥ जगाद सकलं सत्य-मित्यूचे च कृताञ्जलिः॥२५॥खामिन् ! दुर्मतिना क्रीडा-रतिना मयका पुरा ॥ कलाभ्यासः कृतो नास्ति, नास्तिकेन दमो यथा!॥२६॥चिकीर्षामि कलाभ्यासं, पूज्यानामन्तिके ततः॥ निष्कलो हि पुमान् विश्वे, पशोरप्यतिरिच्यते॥२७॥ततोऽलपत्कलाचार्यः, परोपकृतिकर्मठः ॥ वत्स ! मत्सदने स्थित्वा, कलाभ्यास कुरुष्व हे ! ॥ २८॥ किन्तु त्वया खवंशादि-प्रकाश्यं नैव कस्यचित् ॥ इहत्यभूपत्वत्पित्रो-नास्ति तुष्टिमिथो
UTR-1