________________
।। २९०।।
वह्निदीपकौ ॥ सर्वेषामपि जन्तूनां, प्रमादो हि रिपूयते ! ॥ ३ ॥ ततो गुहातमोजात-मोहास्ते परितोऽभ्रमन् ॥ दृष्टपूर्व बिलाध्वानं, न पुनर्लेभिरे तदा ॥४॥ तत्र भ्रमन्तश्च महाविषैस्ते, दष्टा भुजङ्गैर्विषघूर्णिताङ्गाः ॥ कुत्रापि गर्ने पतिताश्च निम्ने, जग्मुः कृतान्तातिथितां वराकाः !॥ ५॥ इति धातुवादिकथा ॥ यथा चैते प्रदीपदृष्टबिला| ध्यानोपि प्रमादप्रनष्टप्रदीपास्तमोविमूढाः सर्पदष्टा गर्ने पतिताश्च तं मार्ग दृष्ट्वाप्यद्रष्टार एव जाताः, एवमन्योऽपि प्राणी कथञ्चित्कर्मक्षयोपशमादेः प्राप्तात् श्रुतज्ञानदीपान्मुक्तिमार्ग दृष्ट्वापि वित्ताद्यासक्तिप्रमादनष्टश्रतज्ञानदीपो मिथ्याज्ञानतमोविमूढो लोभाहिदष्टः कुगतिगर्ते पतितश्च तस्याऽद्रष्टेव भवति, तथा च न केवलं खतस्त्राणाय वित्तं न भवति किन्तु कथञ्चिलब्धं त्राणहेतु सम्यग्दर्शनादिकमप्युपहन्तीति सूत्रार्थः ॥ ५॥ एवं वित्तादि न त्राणायेत्युपदर्य यत्कर्तव्यं तदाह
मूलम्-सुत्तेसु आवी पडिबद्धजीवी, न वीससे पंडिअ आसुपण्णे ।
घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खीव चरप्पमत्तो ॥ ६॥ व्याख्या-सुप्तेषु द्रव्यतः शयानेषु, भावतस्तु धर्म प्रत्यजामत्सु, 'चः' पादपूरणे, 'अपिः' सम्भावने, ततोऽयमर्थः, I | सप्तेष्वप्यास्तां जाग्रत्सु, प्रतिबुद्धो द्रव्यतो निद्रारहितो, भावतस्तु यथावस्थितवस्तुज्ञानवान् , जीवतीत्येवं शीलः प्रतिबुद्धजीवी, अयं भावः-द्विधा सुप्तेष्वपि निर्विवेकजनेषु विवेकी न गतानुगतिकतया खपिति, किन्तु द्विधापि प्रति
UTR-1