________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
।। २८५ ॥
व्याख्या-संसरणं तेषु तेषूचावचकुलेषु पर्यटनं संसारस्तमापन्नः प्राप्तः परस्यात्मव्यतिरिक्तस्य पुत्रकलत्रादेः 'अट्ठत्ति' अर्थात् प्रयोजनमाश्रित्य साधारणं 'जंचत्ति' चस्य वा शब्दार्थत्वाद्भिन्नक्रमत्वाच साधारणं वा यदात्मनोन्येषाश्चैतद्भविष्यतीति बुद्धिपूर्वकं करोति कर्म कृष्याद्यनुष्ठानं, भवानिति गम्यं, कर्मणस्तस्यैव कृष्यादेः ते तव कर्मकर्तुः 'तस्सउत्ति' तु शब्दस्यापिशब्दार्थत्वात्तस्यापि परार्थस्य साधारणस्य वा आस्तामात्मनिमित्तस्येति भावः, वेदकाले विपाककाले न नैव बान्धवाः खजना यदर्थ कर्म कृतवान् ते बान्धवतां तद्विभजनस्फेटनादिना 'उवितित्ति' उपयान्ति, तेन खजनोपरि मोहं हित्वा धर्म एवावहितेन भाव्यं । उक्तञ्च___ "रोगाघ्रातो दुःखादितस्तथा खजनपरिवृतो जीवः ॥ क्वणति करुणं सबाष्पं, रुजं निहन्तुं न शक्तोसौ ॥१॥ माता भ्राता भगिनी, भार्या पुत्रस्तथा च मित्राणि ॥ न नन्ति ते यदि रुज, खजनबलं किं वृथा वहसि ? ॥२॥ रोगहरणेप्यशक्ताः, प्रत्युत धर्मस्य ते तु विघ्नकराः ॥ मरणाच न रक्षन्ति, खजनपराभ्यां किमभ्यधिकम् ? ॥३॥ तस्मात्खजनस्यार्थे, यदिहाकार्य करोषि निर्लज्ज ! ॥ भोक्तव्यं तस्य फलं, परलोकगतेन ते मूढ ! ॥४॥ तस्माखजनस्योपरि, विहाय रागं च निवतो भूत्वा ॥ धर्म कुरुष्व यत्ना-दिहपरलोकस्य पथ्यदनम् !॥५॥" अत्रोदाहरणमाभीरीवञ्चकवणिजस्तत्र चायं सम्प्रदायः
तथा हि नगरे क्वापि, वणिगेकोऽभवत्पुरा ॥ स च हट्टस्थितश्चक्रे, व्यापार प्रतिवासरम् ॥ १॥ अन्यदा सर
UTR-1