________________
॥ २८४ ॥
दस्युरेकः पुरे क्वापि, दुरारोहेपि मन्दिरे ॥ आरुह्य क्षात्रमखन-द्धनं चादाय निर्ययौ ॥१॥ ततः प्रात| बहुद्रव्य-विनाशोत्पन्नदुःखतः॥ प्रबुद्धेन गृहेशेन, तुमुले बहुले कृते ॥ २ ॥ लोके च मिलिते भूरि-तरे तत्र स तस्क
॥ कः किं वक्तीति निर्णेतु-मागान्म[लवेषभृत् ॥ ३॥ [ युग्मम् ] लोकाश्चैवं तदा प्रोचु-र्दुरारोहेऽत्र वेश्मनि ॥ Ke आरुह्य दस्युना तेन, क्षात्रमेतत्कथं कृतम् ? ॥४॥ क्षात्रेणानेन लघुना, परास्कन्दी कथं च स ॥ प्रविष्टो वित्त
मादाय, निर्गतो वा भविष्यति ? ॥ ५॥ तदस्य खेचरस्येव, पाटचरशिरोमणेः ॥ वाचामगोचरां शक्तिं, दृष्ट्वा चित्री
यते मनः ॥६॥ इति लोकोक्तिमाकर्ण्य, तुष्टश्चौरोऽप्यचिन्तयत् ॥ सत्यमेतत्कथमहं, प्रविष्टो निर्गतोऽमुना ? ॥७॥ K इति खीयं वीक्षमाणो, वक्षः कुक्षी कटीतटम् ॥ मुहुर्मुहुः क्षात्रमुखं, प्रेक्षाञ्चक्रे जडाशयः!॥ ८॥ तत्रागता राज
नरास्ततस्तं, निश्चित्य चौरं जगृहुः सुदक्षाः ॥ निन्युश्च सद्यो नृपतेरुपान्ते, नृपोपि तं शिक्षयति स्म सम्यक् ! ॥९॥ इति पापप्रशंसाभिलाषे चौरकथा ॥ एवं पापकर्मप्रशंसाभिलाषोपि सदोष इति न कार्य इति सूत्रार्थः ॥ ३॥ इह च कर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचिद्वन्धुभ्य एव तन्मुक्ति विनी, अमुक्तौ वा धनादिवत्तद्विभज्यैवामी भोक्ष्यन्त| इत्यपि कश्चिन्मन्येताऽत आह
मूलम्-संसारमावण्ण परस्स अट्टा, साहारणं जं च करेइ कम्मं ॥
कम्मस्स ते तस्स उ वेअकाले, न बंधवा बंधवयं उविंति ॥ ४ ॥
UTR-1