SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। २८३।। नगरे क्वाप्यभूत्कोपि, चौरश्चौर्यविशारदः ॥ स चानेकप्रकारेषु, क्षात्रेषु निपुणोभवत् ॥ १॥ नन्द्यावर्तघटा- 1 चतुर्थमव्यम्भोधि-कपिशीर्षादिसंस्थितम् ॥ क्षात्रं दत्वान्वहं चक्रे,तास्कय स हि तस्करः ॥ २॥ सर्वतो दत्तफलके-ऽन्यदाs- यनम् (४) पवरके क्वचित् ॥ स क्षात्रमखनच्चारु, कपिशीर्षकसंस्थितम् ॥ ३॥ तत्र क्षात्रं खनन्तं तं, ज्ञात्वा जाग्रद्गृहाधिपः ॥ उत्थाय तं प्रदेशं द्राक् , बभाज निभृतक्रमः ॥ ४ ॥ गृहे प्रविष्टः शस्त्रेण, प्रहरिष्यति मामसौ ॥ इति सोऽर्धप्र- 1 विष्टं तं, द्रुतं जग्राह पादयोः ॥ ५॥ ततो गृहीतोहमिति, स प्रोचे बाह्यदस्य ॥ सोऽपि तं हस्तयोधृत्वा, बहिः | ऋष्टुं समाकृषत् ॥६॥सोऽन्तःस्थेन गृहेशेन, बहिःस्थेन च दस्युना ॥ आकृष्यमाणो नैवाभू-स्वाङ्गसङ्गोपने क्षमः ॥ ७ ॥ अतीव सङ्कटे क्षात्रे, तदा तत्र खनिर्मिते ॥ सोऽकृत्यत भृशं तीक्ष्णैः, कपिशीर्षकदन्तकैः ॥ ८॥ ततः स चौरः सपराक्रमाभ्यां, ताभ्यामुभाभ्यामपि कृष्यमाणः ॥ क्षात्रेण तेन खकृतेन कृत्तः, पीडां प्रपेदे मरणावसानाम् ! ॥९॥ इति स्वकृतकर्मभोगे चोरकथा ॥ एवमनेनोदाहरणदर्शितन्यायेन प्रजा प्राणिसमूहरूपा, प्रेत्य परलोके, 'इहं च लोएत्ति' इह लोके च, खकृतकर्मनिर्मितविविधबाधाभिः कृत्यते, कुतश्चैवमुच्यत इत्याह- यतः कृतानां । कर्मणां न मोक्षोऽस्ति, यदुक्तं-"यदिह क्रियते कर्म, तत् परत्रोपभुज्यते ॥ मूलसिक्तेषु वृक्षेषु, फलं शाखासु | जायते॥१॥" ततः पापकर्म न विधेयं, आस्तां वा पापकर्म, तत्प्रशंसाऽऽशंसाऽपि न कार्या, तस्या अप्यनर्थहेतुत्वात्तथा च वृद्धाः UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy