________________
॥ २८२ ॥
पूर्णाष्टवर्षे साते, तजाते चेत्यचिन्तयत् ॥ मया भूयस्तरं काल-मियं मोहेन रक्षिता ॥९॥ एनां निहत्य तत्पश्चात् , मारयिष्यामि दारकम् ॥ ध्यात्वेति मारयित्वा तां, कूपे तत्राक्षिपद्रुतम् ! ॥ १०॥ मार्यमाणां च तां वीक्ष्य, भयभ्रान्तस्तदङ्गजः ॥ गृहान्निर्गत्य पूचके, निर्बलानां ह्यदो बलम् ! ॥ ११ ॥ ततः किं पूत्करोषीति, लोकैः पृष्टो जगाद सः ॥ निहत्य जनयित्री मे, कूपे क्षिप्ताधुनामुना ॥ १२ ॥ तच्छ्रुत्वा तस्य सौधान्तः, प्रविश्योरींशपूरुषाः ॥ तं चौरं जगृहुर्जीव-ग्राहं ग्राहा इव द्विपम् ॥ १३ ॥ कूपं च ददृशुर्द्रव्या-पूर्णमस्थिभिराकुलम् ॥ ततोऽवबुध्यतं दस्युं, बड्दा निन्युनूपान्तिकम् ॥ १४ ॥ भूपोप्युपायैर्भूयोभि-स्तं प्रपीड्याखिलं धनम् ॥ लोकेभ्यो दापयत्तं च, विडम्ब्यामारयद्रुतम् ॥ १५ ॥ इत्यर्थलोभेन कुकर्म कुर्व-निहापि पीडामधियाति जन्तुः ॥ अमुत्र चाधोगतिमेति तेन, त्यक्त्वार्थलोभं कुरु धर्मयत्नम् ॥ १६ ॥ इति द्रव्यलोभे चोरकथा ॥ तदेवं धनमत्र परत्र चानर्थकारीति सूत्रार्थः ॥२॥ अथ कर्मणोऽवन्ध्यतां कथयन् प्रस्तुतमेवार्थ द्रढयितुमाहमूलम्-तेणे जहा संधिमुहे गहीए, स कम्मुणा किच्चइ पावकारी ॥
एवं पया पेच्च इदं च लोए, कडाण कम्माण न मुक्खु अत्थि ॥३॥ व्याख्या-स्तेनश्चौरो यथा सन्धिमुखे क्षात्रद्वारे गृहीत आत्तः खकर्मणा खीयानुष्ठानेन कृत्यते छिद्यते पापकारी | पापकरणशीलः, कथं पुनरयं कृत्यते ? इत्यत्र सम्प्रदायस्तथा हि
UTR-1