SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ॥२८०॥ एवं जराभिभूतस्याट्टनस्येव भेषजैः खजनैर्वा त्राणं न भवति । ततश्च 'एअमित्यादि' एतमनन्तरोक्तमर्थ विज्ञानीहि विशेषेणावबुध्यख, तथा एतच्च वक्ष्यमाणं जानीहि, जना लोकाः प्रमत्ताः प्रमादपराः 'उभयत्र सूत्रत्वादेक वचनं' कं ? अर्थ, प्रक्रमात् त्राणं, 'नु' इति वितर्के, विहिंस्रा विविधहिंसनशीलाः, तथा अयताः पापस्थानेभ्योरऽनुपरताः, 'गहितित्ति' ग्रहीष्यन्ति खीकरिष्यन्ति, अयं भावः-एते प्रमत्तादिविशेषणान्विताः खकृतदुष्कर्मभिर्नरकादिकमेव यातनास्थानं यास्यन्ति, परं नास्ति त्राणमिति सूत्रार्थः ॥१॥ इह चासंस्कृतं जीवितं, ज नीतस्य च न त्राणमतो मा प्रमादीरित्युक्ते, अर्थस्यापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिबन्धनतया च तदुपार्जनं प्रति प्रमादो न कार्य इति केषाञ्चित्कदाशयो भवतीति तन्मतमपाकर्तुमाह मूलम्-जे पावकम्मेहिं धणं मणूसा, समाययंती अमइं गहाय ॥ पहाय ते पासपयट्टिए नरे, वेराणुबद्धा नरयं उविंति ॥ २॥ ___ व्याख्या-ये केचन पापकर्मभिः कृषिवाणिज्यादिभिरनुष्ठानैर्धनं द्रव्यं मनुष्या मानवास्तेषामेव प्रायो द्रव्योपार्जनोपायप्रवृत्तेरित्थमुक्तं, समाददते स्वीकुर्वते, अमतिं कुमतिं, “धनैर्दुःकुलीनाः कुलीना भवन्ति, धनैरेव पापात्पुननिस्तरन्ते ॥ धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चि-द्धनान्यजयध्वं धनान्यजयध्वम् ॥१॥” इत्यादिकां गृहीत्वा प्रधार्य, प्रहाय प्रकर्षेण हित्वा धनमेव ते धनैकरसिकाः, 'पासपयट्टिअत्ति' पाशा इव पाशा बन्धननिबन्धन UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy