________________
।। २७८ ॥
2 [पञ्चभिः कुलकम् ] किन्तु तुल्यबलौ वीक्ष्य, तौ जयश्रीः खयंवरा ॥ ध्यायन्ती कं वृणोमीति, नैकमप्यवृणोत्तदा
॥ ४० ॥ पूर्ण भावि द्वितीयेह्नि, नियुद्धमनयोर्ननु ॥ इत्युत्तस्थौ नृपस्ताव-चावपि खाश्रयं गतौ ॥ ४१॥ ततोट्टनेन * फलही, प्रोचे पुत्र ! तदुच्यताम् ॥ तेन मल्लेन यद्वाढं, त्वदङ्गं बाधितं भवेत् ॥ ४२ ॥ अट्टनाय ततः सर्व, फलही
सत्यमब्रवीत् ॥ प्रायश्चित्तग्रहीतेव, गुरवे शुद्धमानसः !॥४३॥ ततोऽट्टनः पक्वतैल-मर्दनैवह्नितापनैः ॥ तदर्भपजैश्च द्राग , विदधे तं पुनर्नवम् ॥ ४४ ॥ मात्स्यिकस्यापि पार्थेऽङ्ग-मर्दकान्प्राहिणोन्नृपः ॥ स तु श्रमादिताङ्गोऽपि, गर्वान्नामर्दयद्वपुः ॥ ४५ ॥ प्रोचे च क्नु रङ्कोयं, स्थातुं शक्ष्यति मे पुरः ॥ अहं ह्यमुष्य जनक-मप्यजैषं पुरा जवात्!
॥४६॥ समयुद्धावजायेतां, द्वितीयदिवसेऽपि तौ ॥ पार्थिवे चोत्थिते प्राग्व-त्तमसज्जयदट्टनः ॥४७॥ मात्स्यि| कस्तु मदाविष्टो-ऽचीकरनाङ्गगमर्दनम् ॥ नियुद्धमारभेतां तौ, तृतीयेप्यह्नि पूर्ववत् ॥ ४८ ॥ तदा च मात्स्यिक वीक्ष्य, नियुद्धश्रान्तविग्रहम् ॥ निरोजस्कप्रहारञ्च, वैशाखस्थानसंस्थितम् ॥ ४९ ॥ फलहीति वदंस्तस्य, भ्रूसंज्ञामट्टनो व्यधात् ॥ जग्राह फलहीग्राहं, पाणिना सोऽपि मात्स्यिकम् ॥ ५० ॥ [ युग्मम् ] तं कमण्डलुवन्मौलिं, परितोऽभ्रमयच सः ॥ ततस्तुष्टो बहुद्रव्य-महनायार्पयन्नपः ॥५१॥ तच दत्वा हालिकाया-ऽहनोऽपि विससर्ज तम् ॥ खयं त्ववन्तीमगमत् , कृतार्थो वैरशुद्धितः ॥५२॥ विमुक्तयुद्धव्यापारो, गृहे तिष्ठन् सुतादिभिः ॥ वृद्धोऽयमऽसमर्थोय-मिति सोऽहील्यतान्यहम् ! ॥ ५३॥ ततो मानादनापृच्छय, तान् काशाम्बी जगाम सः ॥ आव.
UTR-1