________________
उत्तराध्ययन
॥ २७७।।
* वादीदमुं मुक्त्वो-द्यममेहि समं मया ॥ अतिस्तोकेन कालेन, कुर्वे त्वामीश्वरं यथा ! ॥ २५ ॥ सोप्यूचेऽहं तदा
चतुर्थमध्यगच्छा-म्यादिशेद्यदि मां वशा ॥ पृष्टा मल्लेन तत्रार्थे, ततः साप्येवमब्रवीत् ॥ २६ ॥ उसोस्त्यनेन कर्पासो-ऽधुना KI
यनम् (४) स च विनाऽमुना ॥ विनश्यति तदा च स्या-त्कथमाजीविका मम ? ॥ २७॥ मल्लोब्रवीदत्र यावान् , कर्पासश्चि| न्तितो भवेत् ॥ गृहाण तावतो मूल्य-मधुनैवार्पयामि ते ॥ २८ ॥ इत्युदीर्य तया प्रोक्त-मानं मल्लो ददौ धनम् ॥ | ततोनुमेने सा कान्तं, किं हि वित्तान्न जायते ? ॥ २९ ॥ अट्टनोथ तमादाय, ययावुज्जयनी जवात् ॥ पोषयामास | तं प्रोचै-रुपायैश्च परश्शतैः ॥ ३० ॥ अशिक्षयच तस्योग्रं, मलयुद्धं महौजसः ॥ फलहीमल्ल इत्यस्या-ऽभिधानं च | विनिर्ममे ॥ ३१ ॥ द्वितीयाब्दे च सम्प्राप्ते, मल्लयुद्धमहोत्सवे ॥ अट्टनोगात्समं तेन, पुनः सोपारके पुरे ॥ ३२ ॥ अथ सिंहगिरौ राज्ञि, मलयुद्धदिदक्षया ॥ समं पौरैः परोल:-रङ्गमण्डपमाश्रिते ॥ ३३ ॥ योधं योधमनेकेषु, मल्लेखूपरतेषु च ॥ नियुद्धार्थमढौकेतां, फलहीमात्स्यिको मिथः ॥ ३४ ॥ [ युग्मम् ] क्षोभयन्तौ भुजास्फोट-रवैर्वीर- | मनांस्यपि ॥ कम्पयन्तौ धरापीठं, दुर्धरैः पादददुरैः ॥ ३५॥ मुष्टामुष्टिप्रकुर्वन्तौ, दन्तादन्तीव कुञ्जरौ ॥ प्रबलैः ॐ पादविन्यास-नमयन्ताविव क्षमाम् ॥ ३६ ॥ भूतले निपतन्ती च, छिन्नमूलमहाद्रुवत् ॥ मातलाचावधूयाङ्ग-मुत्तिछन्तौ विनिद्रवत् ॥ ३७॥ विलगन्तौ मिथो बाढं, चिरान्मिलितबन्धुवत् ॥ कृतप्रहारहुडुव-द्वियुञ्जानौ च सत्वरम् ॥ ३८॥ उत्पतन्तौ पतङ्गवत् , प्लवमानौ प्लवङ्गवत् ॥ तो चिरं चक्रतुर्मल-युद्धं मलशिरोमणी ॥३९॥
UTR-1