________________
उत्तराध्ययन
॥ २६९ ।।
व्याख्या-विसालिसेहिति' मगधदेशीभाषया विसदृशैः खखचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नैः शीलै- || | तृतीयमध्यः व्रतपालनात्मकैरनुष्ठानविशेषैर्यक्षा देवा ऊर्दू कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः । कीदृशा यक्षा इत्याह-उत्तरो- यनम् (३) त्तरा यथोत्तरं प्रधानाः, महाशुक्ला अतिशयोज्वलतया चन्द्रादित्यादयः ते इव दीप्यमानाः प्रकाशमानाः, अनेन शरीरसम्पदुक्ता, सुखसम्पदमाह-मन्यमाना मनस्यवधारयन्तो विशिष्टकामादिप्राप्तिसमुत्थरतिसागरावगाढतया दीर्घस्थितिमत्तया च अपुनश्यवं अपुनश्च्यवनं तिर्यगादिषूत्पत्तेरभावम् ॥१४॥ तथा अप्पि अत्ति' अर्पिता इवार्पिता दौकिताः || प्रक्रमात्प्राकृतसुकृतेन, केषामित्याह-देवकामानां दिव्याङ्गनास्पर्शादीनां, कामेन इच्छया रूपविकरणं येषां ते काम- | रूपविकरणा यथेष्टरूपादिकरणशक्तियुक्ता इत्यर्थः । ऊर्द्धमुपरिकल्पेषु सौधर्मादिषु, उपलक्षणत्वात् ग्रैवेयकानुत्तरेषु | च, तिष्ठन्ति आयुःस्थितिमनुभवन्ति, पूर्वाणि सप्ततिकोटिलक्षषट्पंचाशत्कोटिसहस्रवर्षपरिमितानि, वर्षशतानि प्रतीतानि, बहून्यसंख्येयानि, जघन्यतोऽपि तत्र पल्योपमस्थितित्वात्, पल्योपमे च तेषामसंख्येयानामेव भावात्, पूर्ववर्षशतग्रहणं त्विह पूर्ववर्षशतायुषामेव चरणयोग्यतया विशेषाद्देशनायोग्यत्वमिति सूचनार्थमिति सूत्रद्वयार्थः॥१४॥ ॥ १५ ॥ अथ तेषामेतावदेव फलमुतान्यदपीत्याहमूलम्-तत्थ टिच्चा जहाठाणं,जक्खा आउक्खए चुआ॥उवेन्ति माणुसं जोणिं,से दसंगेभिजायइ ॥१६॥ व्याख्या-तत्र तेषु देवलोकेषु सौधर्मादिषु स्थित्वा यथास्थानं यद्यस्य खानुष्ठानानुरूपमिन्द्रादिपदं तस्मिन्
UTR-1