SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ।। २७० ।। यक्षा आयुःक्षये स्वस्वजीवितावसाने च्युता भ्रष्टा उपयान्ति गच्छन्ति मानुषीं योनिं तत्र च ' सइति' सावशेषशुभकर्मा जन्तुर्दश अङ्गानि भोगोपकरणानि यस्यासौ दशाङ्गोऽभिजायते, एकवचननिर्देशस्त्विह विसदृशशीलतया कश्चिद्दशाङ्गः कश्चिन्नवाङ्गादिरपि जायते इति वैचित्र्य सूचनार्थ इति सूत्रार्थः ॥ १६ ॥ अथ दशाङ्गान्येवाहमूलम् -- खित्तं वत्युं हिरण्णं च, पसवो दास पोरुसं ॥ चत्तारि कामखंधाणि, तत्थ से उववज्जई ॥१७॥ व्याख्या - क्षेत्रं ग्रामारामादि, सेतुकेतूभयात्मकं वा, वास्तु खातोच्छ्रितोभयात्मकं, हिरण्यं सुवर्ण, उपलक्षणत्वात् रूप्यादि च, पशवो गोमहिष्यादयाः, दासाश्च प्रेष्यरूपाः, 'पोरुसंति' प्राकृतत्वात् पौरुषेयं च पदातिसमूहो दासपौरुषेयमिति, चत्वारश्चतुःसंख्या, अत्र हि क्षेत्रं वास्तु चेत्येकः, हिरण्यमिति द्वितीयः, पशव इति तृतीयः, दासपौरुषेयमिति चतुर्थः, एते कामा मनोज्ञाः शब्दादयः तद्धेतवः स्कन्धास्तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र भवन्तीति गम्यते, प्राकृतत्वाच्च नपुंसकनिर्देशः, तत्र तेषु कुलेषु स उपपद्यते ॥ १७ ॥ अनेन चैकमङ्गमुक्तमथ शेषाणि नवाङ्गान्याह - मूलम् - मित्तवं नाइवं होइ, उच्चागोए अवण्णवं ॥ अध्यायंके महापण्णे, अभिजाए जसो बले ॥ १८ ॥ (१) तत्र सेतुक्षेत्रं यदरघट्टा दिजलेन सिचयते ॥ १ ॥ केतुक्षेत्रमाका शो द कनिष्पाद्यसस्यम् ॥ २ ॥ उभयक्षेत्रं तु उभयजल निष्पाद्यसस्यमिति ॥ ३ ॥ (२) तत्र खातं भूमिगृहादि ॥ १ ॥ उच्छ्रितं प्रासादादि ॥ २ ॥ तदुभयं भूमिगृहोपरिस्थप्रासादम् ॥ ३ ॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy