________________
उत्तराध्ययन
तृतीयमध्य यनम् (३)
।। २६७।।
नकोदवीराख्यौ, ताभ्यामासीत्परम्परा ॥ ८०॥ इत्यष्टमो दिक्पटसंज्ञनिह्नवः, प्रकाशितो हारितशुद्धबोधिकः ॥ लन्धोऽपि बोधिजतीति कस्यचित् , तद्रक्षणं तत्कुरुत प्रयत्नतः!॥ ८१॥ इत्यष्टमनिह्नवकथा ॥ इति समाप्ता निववक्तव्यतेति सूत्रार्थः ॥ ९॥ अथ मानुषत्वादित्रयावाप्तावपि संयमे वीर्य दुर्लभमित्याहमूलम्-सुइं च लद्धं सद्धं च, वीरिअं पुण दुल्लहं ॥ बहवे रोअमाणावि, नोयणं पडिवजए ॥ १० ॥
व्याख्या-श्रुति, चशब्दात्मानुषत्वं च, लब्ध्वा प्राप्य, श्रद्धां च, वीर्य, प्रक्रमासंयमविषयं पुनःशब्दस्य विशेषकत्वात् विशेषेण दुर्लभं, यतो बहवो रोचमाना अपि श्रद्दधाना अपि 'नोयणंति' सूत्रत्वान्नो एनं संयमं प्रतिपद्यन्ते चारित्रमोहनीयकर्मादयतः सत्यकिश्रेणिकादिवत्कर्तु नाङ्गीकुर्वन्तीति सूत्रार्थः ॥ १० ॥ अथास्य चतुरङ्गस्य फलमाहमूलम्-माणुसत्तंमि आयाओ, जो धम्मं सुच्च सद्दहे ॥ तवस्सी वीरिअलर्बु, संवुडे निद्भुणे रयं ॥११॥
व्याख्या-मानुषत्वे आयातो यो धर्म श्रुत्वा ‘सहहेत्ति' श्रद्धत्ते स तपखी निदानादिरहिततया प्रशस्यतपोन्वितः | वीर्य संयमोद्योगं लब्ध्वा संवृतः स्थगिताश्रयो निर्धनोति नितरामपनयति, रजो बध्यमानकर्मरूपं, तदपनयनाच्च मुक्तिमेवाप्नोतीति भाव इति सूत्रार्थः ॥ ११॥ इत्यामुष्मिकं फलमुक्तमिदानीमैहिकं फलमाहमूलम्- सोही उजुअभूअस्स, धम्मो सुद्धस्स चिट्टइ ॥ णिवाणं परमं जाइ,घयसित्तिव पावए ॥१२॥ व्याख्या-शुद्धिः कषायकालुप्यापगमः, स्यादिति गम्यते, ऋजुभूतस्य चतुरङ्गप्राप्त्या मुक्तिं प्रति प्रगुणीभूतस्य
UTR-1