SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन तृतीयमध्ययनम्(३) ।। २६५ ॥ नो बहुमूल्यस्य, वस्त्रादेग्रहणं मतम् ! ॥५१॥ इत्युक्तोऽपि स सूरीन्द्र-स्तं न तत्याज मूर्छया ॥ किन्तूपधौ गोपयित्वा, ररक्ष छन्नमन्वहम् ॥ ५२ ॥ अस्य मूर्छानिदानेन, किमननेति सूरयः ॥ तस्मिन् क्वापि गते रत्न-कम्बलं तमकर्षयन् ॥ ५३ ॥ विधाय तस्य शकला-निषद्यायै तपखिनाम् ॥ आर्पयंस्तच्च विज्ञाय, शिवभूतिरदूयत ॥ ५४ ॥ कृतावहित्थस्तस्थौ च, गुरोश्छिद्राणि मार्गयन् ॥ अन्यदा वर्णयंश्चैवं, सूरयो जिनकल्पिकान् ॥५५॥ भवन्ति द्विविधास्ताव-जिनकल्पिकसाधवः ॥ तत्रैके भुञ्जते पाणा-वन्ये त्वश्नन्ति पात्रके ॥ ५६ ॥ तेऽपि प्रत्येकमुदिता, द्विविधा जिनपुङ्गवैः ॥ तत्र वस्त्रधरा एके-ऽन्ये तु चीवरवर्जिताः ॥५७॥ श्रुत्वेत्यादि शिवोऽवोच-जिनकल्पोऽधुना कुतः॥ विधीयते न निम्रन्थै-निष्परिग्रहतार्थिभिः ? ॥ ५८ ॥ सूरिजंगाद व्युछिन्नो, जिनकल्पो हि भारते ॥ श्रीवीरखा. मिपात्रेण, श्रीजम्बूखामिना समम् ॥ ५९ ॥ सोऽवादीदल्पसत्त्वानां, व्युछिन्नोऽसौ न मादृशाम् ॥ मादृशो हि महा- | सत्वः, कर्तुमीष्टेऽधुनाप्यमुम् ! ॥६०॥ मोक्षार्थिना हि सकल-स्त्याज्य एवं परिग्रहः ॥ वस्त्रपात्रादिकमपि, तत्त्यक्ष्यामि परिग्रहम् ! ॥ ६१ ॥ सूरयः प्रोचिरे वत्स !, वस्त्रपात्रादिकं ह्यदः ॥ धर्मोपकरणं तेन, न परिग्रह उच्यते ! ॥ ६२ ॥ तद्रक्षणे च नो कश्चि-दोषो मोक्षार्थिना भवेत् ॥ लोभादेव हि मोक्षस्य, विघ्नः स्यान्न तु चीवरात् ! ॥६३ ॥ प्रयोगश्चात्र वस्त्रादि, न दोषाय तपखिनाम् ॥ धर्मोपष्टम्भदायित्वात् , शुद्धाहारादिवत्स्फुटम् ! ॥ ६४ ॥ न च हेतुरसिद्धोऽय-मिति वाच्यं त्वया यतः॥ धर्मोपष्टम्भदायित्वं, तस्याऽध्यक्षेण दृश्यते ! ॥६५॥ तथा हि UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy