SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ।। २६४॥ स्माह सगद्गदम् ॥ ३६ ॥ पुत्रो युष्माकमायाति, निशीये प्रत्यहं गृहे ॥ यावदागमनं चाहं, न भुजे न शयेऽन्वहम् ॥३७॥ नित्यं क्षुज्जागराभ्यां तत्पीडा मे जायते भृशम् ॥ तकिङ्करोम्यहं मात-स्त्वदादेशवशंवदा ॥ ३८ ॥ श्वश्रुः शशंस सुभगे!, खपिहि त्वं यथासुखम् ॥ अद्याहमेव जागर्मि, तयेत्युक्ताऽखपीद्वधूः ॥ ३९ ॥ गृहद्वारं पिधायास्थात्तस्य माता तु जाग्रती ॥ सोऽथाऽऽगतोऽवदत्सद्यो, द्वारमुद्घाट्यतामिति ॥४०॥ माता प्रोचेऽधुना यत्र, द्वारमु द्घाटितं भवेत् । तत्र प्रयाहि न बत्र, द्वारमुद्घाख्यतेऽधुना !॥४१॥ तदाकाऽखर्वगः, शिवभूतिरचिन्तयत् ॥ मात्राऽपमानितोऽद्याऽहं, तद्याम्यन्यत्र कुत्रचित् ! ॥ ४२ ॥ यतः-"स्थानस्थादपमानेऽपि, देहिनस्तदरं रजः॥ पादाहतं यदुत्थाय, मूर्धानमधिरोहति !॥४३॥" विमृश्येति निजाद्गहा-द्याघुट्य नगरे भ्रमन् । दैवादुद्घटितद्वारं, साधूपाश्रयमैक्षत ! ॥ ४४ ॥ ततस्तत्र प्रविश्यार्य-कृष्णाचार्यान् प्रणम्य तान् ।। मां प्रव्राजयतेत्यूचे, ते तु प्राब्राज| यन्न तम् ॥ ४५ ॥ खयमेव ततस्तेन, लुञ्चिते, खीयमस्तके ॥ गुरवो ददिरे तस्मै, लिङ्गं धर्मध्वजादिकम् ॥ ४६ ॥ तमुपात्तव्रतं ज्ञात्वा, प्रातस्तत्राऽऽययौ नृपः ॥ मामनापृच्छय किमिदं, त्वया कृतमिति त्रुवन् ? ॥ ४७ ॥ स प्रोचे पृष्टमेवैत-स्वातंत्र्यप्रार्थिना मया ॥ ततो नपस्तं नत्वाऽगा-द्विमनास्तद्वियोगतः ॥४८॥ बहिर्विहत्य तत्राऽऽगुः, | सूरयोऽप्यऽन्यदा पुनः ॥ तदा शिवं नृपःस्नेहा-दाहूय खगृहेऽनयत् ॥ ४९ ॥ अनिच्छतोऽपि तस्याऽदा-द्भूधवो रनकम्बलम् ॥ तमादायागतं सूरिः, शिवभूतिं तदेत्यवक ॥ ५० ॥ किमयं भवता वत्स !, जगृहे रत्नकम्बलः ॥ न हि UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy