SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन तृतीयमध्य. यनम् (३) ॥२६१॥ गत्वा विदेहे सङ्घोक्त-युक्त्याऽप्राक्षीजगत्प्रभुम् ॥ २॥ शशंस शम्भुशकोऽथ, सङ्घोऽसौ वक्ति सूनृतम् ॥ माहिलस्त्वनृतं ब्रूते, निह्नवो ह्येष सप्तमः ॥३॥ तदाकाऽऽगता देवी, सङ्घमेवमवोचत ॥ कायोत्सर्ग पारयित्वा, भाषितं | शृणुताऽर्हतः ॥ ४ ॥ सङ्घः सत्यो माहिलस्तु, निह्नवोऽनृतभाषकः ॥ तयेत्युक्तेऽवदद्गोष्ठा-माहिलोऽतिकदाग्रही ! ॥ ५ असौ वराकी खल्पी -स्तत्र गन्तुं कं शक्रयात् ? ॥ तत्कल्पितमियं वक्ति, न पुनर्जिनभाषितम् ! ॥६॥ ततस्तं पुष्पमित्राख्य-सूरयोऽप्येवमूचिरे ॥ सम्यक श्रद्धेहि नोचेत्त्वं, सङ्घबाह्यः करिष्यसे !॥ ७॥ तथापि तत्तन्मतमत्यजन्तं, चकार सङ्घोऽखिलसङ्घबाह्यं ॥ व्युद्धाहयन् सोऽपि जनाननेकान् , बभ्राम भूमौ गतबोधिरत्नः ! ॥१०८ ॥ इति सप्तमनिह्नवकथा ॥ ७॥ ___ "इति खल्पजिनप्रोक्त-वचनोत्थापका अमी ॥ सप्तोक्ता निवाः पूर्व, प्रोक्ता गाथाद्वयेन ये ॥१॥” “अथ भूरि-| | विसंवादी, प्रसङ्गात् प्रोच्यतेऽष्टमः ॥ श्रीवीरमुक्तेर्जातोऽब्द-शतैः षड्भिर्नवोत्तरैः ॥ २ ॥” “तथाहि”-रथवीरपुरा* भिख्ये, पुरेऽभूद्दीपकाभिधम् ॥ वनं तत्रार्यकृष्णाख्याः, सूरयः समवासरन् ॥ ३॥ इतश्च शिवभूत्याख्यः, क्षत्रियः * सात्विकाग्रणीः ॥ सहस्रयोधी तत्रत्यं, नृपं सेवितुमाश्रयत् ॥४॥ नृपो दध्यौ परीक्षेऽह-मस्य धैर्यादिकान् गुणान् ॥ निर्गुणो ह्यनुजीवी स्या-त्खामिनो नो सुखाकरः ॥ ५॥ परीक्षापूर्वमेवास्मै, प्रदास्ये वृत्तिमप्यहम् ॥ निर्गुणे हि जने दत्तं, स्याद्भस्मनि हुतोपमम् ! ॥ ६ ॥ध्यात्वेति भूपतिः श्याम-चतुर्दश्यां निशामुखे ॥ पशुमेकं वारुणीं च, UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy