________________
।। २६०॥
सर्वापि, प्रत्याख्यानस्य गोचरः ॥ ८७ ॥ तदा चायुःक्षयाद्देव-भवं गतवतो यतेः ॥ सावद्यसेवनेऽवश्यं, व्रतभङ्गः प्रसज्यते ! ॥ ८८॥ अथ यावच्छक्ति यस्मात् , प्रत्याख्यानं विधीयते ॥ तस्मादपरिमाणत्व-मिति चेदभिधीयते ॥८९ ॥ तर्हि शक्तिमितं प्रत्या-ख्यानमङ्गीकृतं खयम् ॥ तथा चापरिमाणत्व-खीकारस्तस्य नोचितः ॥९॥ किञ्चाशंसावशान्नैव, यावज्जीवेति पठ्यते ॥ व्रतभङ्गभयात्किन्तु, यावज्जीवेति पठ्यते ॥ ९१॥ आशंसारहितत्वेन, तत्सावधिकमप्यहो ॥ प्रत्याख्यानं न दोषाय, कायोत्सर्गनिदर्शनात् ॥ ९२ ॥ इत्यादिवन्ध्यवचनं, न यदा खीचकार सः ॥ तदा सर्वेऽपि मुनय-स्तमेवं प्रोचिरे मुहुः ॥ ९३ ॥ महात्मनित्यमेवेदं, वन्ध्यवाक्यमुरीकुरु ॥ एवमेवैतदुक्तं श्री-आर्यरक्षितसूरिभिः ॥ ९४ ॥ अन्येऽपि स्थविरा अन्य-गच्छीया ये बहुश्रुताः ॥ तेऽपि पृष्टा जगुः प्रत्या-ख्यानं | सावधिकं ध्रुवम् ॥ ९५॥ तथाऽपि माहिलो नैव, तं कदाग्रहमत्यजत् ॥ आग्रहो ह्यगिनां प्रायो-ऽसाध्यः स्यात्क्षयरोगवत् ॥ ९६ ॥ तानित्यूचे च नो यूयं, तत्त्वं जानीथ किञ्चन ॥ तीर्थङ्करैर्हि भावोऽयं, कथितोऽस्ति मदुक्तवत् ॥ ९७ ॥ ततः साध्वादिकः सर्व-सद्यः प्रष्टं जिनेश्वरम् ॥ उद्दिश्य शासनसुरी, कायोत्सर्ग विनिममे ॥ ९८॥ सुरी साऽप्याऽऽययौ ब्रूत, किं करोमीति वादिनी? ॥ सङ्घः स्माहेति पृच्छ त्वं, गत्वा सीमन्धराधिपम् ॥ ९९ ॥ किं गोष्ठामाहिलमुनि--कदीरयति सूनृतम् ॥ सहो दुर्बलिकापुष्प--मित्रादिः सकलोऽथवा ? ॥ १०॥ ततो देव्यवदद्दत्त, कायोत्सर्गवलं मम ॥ यथाऽनेकसुराकीर्णे, मार्गे स्यां गन्तुमीश्वरी ॥१॥ सवेनाऽथ कृते कायोत्सर्गे शासनदेवता ॥
UTR-1