________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
।। २५९ ॥
तथापि स शठश्चित्ता-नात्याक्षीत्तं कदाग्रहम् ॥ क्षोभनां पुनरन्यत्र, करिष्यामीति चिन्तयन् ॥ ७३ ॥ अन्यदा नवमं पूर्व, प्रत्याख्यानाभिधं पठन् ॥ वन्ध्यसाधुर्मुनेः प्रत्या-ख्यानमेवमवर्णयत् ॥ ७४ ॥ यावजीवं सर्वमेव, प्राणिप्राणातिपातनम् ॥ त्रिविधं त्रिविधेनाङ्गी, प्रत्याख्याति व्रतीभवन् ॥ ७५ ॥ इत्याद्याकर्ण्य तं गोष्ठा-माहिलः प्रोचिवानिति ॥ परिमाणयुतं प्रत्या-ख्यानं साधोर्न युज्यते ॥ ७६ ॥ यावजीवमिति प्रोक्ते, कालमानमुरीकृतम् ॥ तथा चाग्रे हनिष्यामी-त्याशंसादूषणं भवेत् ॥ ७७ ॥ तस्मादपरिमाणेन, प्रत्याख्याम्यखिलं बधम् ॥ त्रिविधं त्रिविधेनेति, वाच्यं खीकुर्वता व्रतम् ॥ ७८ ॥ एवं वदन्तं तं वन्ध्यो-भ्यधादिति महामतिः ॥ आशंसा कि कालमाना-जायते | वाञ्छयाऽथवा ?॥ ७९ ॥ आद्य पक्षे मुनेरद्धा-प्रत्याख्यानं वितन्वतः ॥ पौरुष्यादिपदोचारे-ऽप्याशंसा स्यादनाहता !॥ ८॥ पौरुष्यादिपदेनाद्धा-प्रत्याख्यानेऽपि निश्चितम् ॥ यामादिकं कालमान-मेव यस्मादुदीर्यते॥८१॥ अथ तत्रापि पदं त-नो वाच्यमिति चेत्तदा ॥ भवेदनशनापत्तिः, प्रव्रज्यादिन एव हि !॥ ८२॥ न च साधोभवेन्नाद्धा-प्रत्याख्यानमिति त्वया ॥ वक्तव्यमपसिद्धान्त-दोषापत्तिर्यतो भवेत् ॥ ८३ ॥ सिद्धान्ते हि जिनैरद्धा-प्र| त्याख्यानं तपखिनाम् ॥ कर्तव्यत्वेन कथितं, दशधाऽनागतादिकम् ॥ ८४ ॥ वान्छारूपो द्वितीयोऽपि, पक्षो नो
युज्यते क्वचित् ॥ मुनेरन्यभवेऽवद्य-सेवाशा यन्न विद्यते ॥ ८५॥ अन्यच्चापरिमाणत्वं, प्रत्याख्यानस्य यत्पुरा ॥ त्वया प्रोक्तं तदपि नो, युक्तं युक्तिविरोधतः ॥ ८६ ॥ क्रियमाणेऽपरिमाण-प्रत्याख्याने हि जायते ॥ अनागताद्धा
UTR-1