________________
।। २५८ ।।
वन्ध्यः सूरीन्द्रसन्निधौ ॥ निवेद्य माहिलवचः, किं तथ्यमिति पृष्टवान् ? ॥ ५८ ॥ सूरयः प्रोचुरुक्तं हि, प्राग्मया तथ्यमेव ते ॥ माहिलस्य तु गीनैव, युक्ता युक्तिविरोधतः ॥ ५९ ॥ जीवो हि खावगाहाभि-व्याप्त एवाम्बरे स्थितम् ॥ गृह्णाति कर्मदलिकं, जातु न त्वन्यदेशगम् ॥६० ॥ तथा च वह्नययःपिण्ड-वदैक्यं जीवकर्मणोः ॥ स्यान्न तु स्पृष्टमात्रत्वं, देहकञ्चकवत्तयोः ॥ ६१ ॥ अथात्मान्यप्रदेशस्थं, कर्मादायानुवेष्टयेत् ॥ यद्यात्मानं तदा तस्य, घटते कञ्चकोपमा ॥६२॥ किन्तु स्यादपसिद्धान्त-स्तदा सूत्रविरोधतः ॥ सूत्रे ह्यन्यप्रदेशस्थ-कर्मादानं निषिध्यते ॥६३॥ किञ्च कञ्चकवत्कर्म, चेबहिःस्थितमात्मनि ॥ वेदनापि तदा कर्म-निमित्तान्तः कथं भवेत् ? ॥ ६४ ॥ अथ संचारिभावात्स्या-कर्म मध्येपि संस्थितम् ॥ इत्यन्तर्वेदनापि स्या-दिति चेत्तेन मन्यते ॥६५॥ तर्हि कक्षुककल्पत्वं, | कर्मणो व्याहतं स्फुटम् ॥ कक्षुको हि बहिः स्पृष्ट, एव स्यान्न तु मध्यगः ॥ ६६ ॥ तदा च युगपन्न स्था-दहिर्मध्ये || | च वेदना ॥ कर्मणो बहिरन्तर्वा, सम्बन्धाद्वेदना कृतः ॥ ६७ ॥ संचारित्वाच तत्कर्म, न गच्छति भवान्तरे ॥ जीवेन सह देहस्थ-निःश्वासादिसमीरवत् ॥ ६८॥ सर्वैर्जीवप्रदेशस्त-निबद्धं कर्म मन्यताम् ॥रागादिबन्धहेतूनां, सद्भावात्सकलात्मनि ॥ ६९ ॥ न चाविभागसम्बन्धा-त्पार्थक्यं जीवकर्मणोः ॥ नैव भावीति विज्ञेयं, तद्वाक्याकर्णनात्त्वया ॥७० ॥ यतोऽविभागसम्बन्ध-वतोरप्यश्महेमयोः ॥ पृथग्भावो जायमानः, प्रत्यक्षेण निरीक्ष्यते ॥ ७१ ॥ इत्यादिभिः सूरिवाक्य-बन्ध्यो निःशङ्कतां गतः ॥ माहिलायाऽवदत्तानि, द्रुतं गत्वा तदन्तिके ॥ ७२ ॥
UTR-1