SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन तृतीयमध्ययनम् (३) ।। २५७ ॥ निष्पावकुम्भकल्पस्य, तस्याभ्यणे महाधियः ! ॥ यूयमेव श्रुतामायान् , गृह्णीत निखिलानपि ॥४३॥ पूर्व कर्म | प्रवादाख्य-मष्टमं सूरयस्तु ते ॥ अध्यापयन्तो वन्ध्यादि-साधूनामभवंस्तदा ॥ ४४ ॥ तत्रावन्ध्यमतिर्वन्ध्यो-ऽन्य | दाधीत्यानुचिन्तयन् ॥ त्रैविध्यं कर्मबन्धस्य, व्याचख्याविति तद्यथा ॥ ४५ ॥ जीवैर्हि बध्यते कर्म, बद्धं स्पृष्टं निका- | चितम् ॥ तत्र बद्धं यथा सूची-कलापस्तन्तुवेष्टितः॥४६॥ स्पृष्टं यथा सूचिकास्ताः, किट्टेनैकत्वमाश्रिताः ॥ निकाचितं यथा ताप-कुटनैरेकतां गताः ॥ ४७ ॥ वनात्येवं पूर्वमात्मा, रागादिपरिणामतः ॥ प्रदेशैः सकलैः कर्म, विज्ञानावरणादिकम् ॥ ४८ ॥ तदेव कुरुते स्पृष्टं, तत्परीणामवृद्धितः ॥ संक्लिष्टात्तु परीणामा-तत्करोति निकाचि| तम् ॥ ४९ ॥ तत्र बद्धं याति नाश-मुपायैर्निन्दनादिभिः ॥ प्रायश्चित्तायुपायैस्तु, स्पृष्टं कर्म निवर्तते ॥५०॥ निकाचितं तु यत्कर्म, जीवैः सुदृढबन्धनात् ॥ उदयेनैव तत्प्रायो, वेद्यते नान्यथा पुनः ॥ ५१ ॥ इत्यनुप्रेक्षमाणं - | तं, गोष्ठामाहिल इत्यवक् ॥ मैवं वादीर्यदस्माभि-गुरुभ्यो नेदृशं श्रुतम् ॥ ५२ ॥ यदि स्यादात्मना कर्म, बद्धं स्पृष्टं | निकाचितम् ॥ तदा तदपृथग्भावा-मोक्षस्तस्य कथं भवेत् ? ॥५३॥ वन्ध्योऽभ्यधात्कथं तर्हि, सम्बन्धो जीवकर्मणोः॥ तत इत्यलपद्गोष्ठा-माहिलः कल्पनापटुः ॥५४॥ यथा कञ्चुकिनो देहं, बहिः स्पृशति कक्षुकः ॥ पुषा सह सम्बद्धो, न त्वसौ जातु जायते॥५५॥ एवं कर्मापि जीवेन, स्पृष्टं वद्धं पुनर्न तत् ॥ यस्तु तन्मन्यते बदं, तस्य न स्याद्भवक्षयः | ॥५६॥एतावदेव गुरुभिः,प्रोक्तं नः पाठनक्षणे॥ एष सूरिस्तु तत्तत्त्वं, नैव जानाति किञ्चन ॥५७॥ जाताशङ्कस्ततो गत्वा, UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy