SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ॥ २५६ ।। दुर्बलिकापुष्प-मित्रर्षि: गणाधिपः ॥ २८ ॥ इयत्कालं मदादेशो, युष्माभिर्मानितो यथा ॥ अतः परं तथा मान्यं, वचोऽमुष्य गणेशितुः ॥ २९ ॥ अकृतेऽपि मदादेशे, जातु कोपो न मे भवेत् ॥ अयं तु स्तोकमप्यागो, न कस्यापि | सहिष्यते ॥ ३० ॥ इत्युक्ते सूरिभिः सर्वे, प्रत्यपद्यन्त तत्तथा ॥ ततो दुर्बलिकापुष्प-मित्रमित्थं जगौ गुरुः ॥ ३१॥ | गुणित्वाद्वत्स ! गच्छोऽयं, त्वदके स्थाप्यते मया ॥ तदसौ भवता मद-पालनीयो महामते ! ॥३२॥ श्रीफल्गुरक्षिते गोष्ठा-माहिले च यथा मया ॥ प्रवृत्तं भवताऽप्येवं, वर्तितव्यं, विशेषतः ॥ ३३॥ इत्युक्त्वा स्थापयित्वा च, तं मुनीन्द्र निजे पदे ॥ विहितानशनाः खर्ग, जग्मुः श्रीआर्यरक्षिताः ॥ ३४ ॥ श्रीआर्यरक्षिताचार्यान् , सMमाकर्ण्य दिवङ्गतान् ॥ गोष्ठामाहिलनामापि, ययौ दशपुरे द्रुतम् ॥ ३५ ॥ न्यधीयत निजे पट्टे, शिष्यः को नाम सूरिभिः? ॥ इति चागतमात्रोऽपि, सोऽप्राक्षीदखिलान् मुनीन् ॥ ३६ ॥ ततोऽभ्युत्थाय ते कुम्भ-दृष्टान्तांस्तानु दीर्य च ॥ श्रीमहुबलिकापुष्प-मित्राख्यं सूरिमूचिरे ॥ ३७॥ तन्निशम्योद्गतामों, माहिलः सर्वसाधुभिः ॥ इहैव * तिष्ठतेत्युक्तो-ऽप्यनिच्छन्निर्ययौ बहिः ॥ ३८ ॥ पूर्वोपाश्रयपार्श्वस्थे, स्थित्वा सोपाश्रये पृथक् ॥ प्रावर्तिष्ठान्यसा| ध्वादीन् , व्युद्धाहयितुमुच्चकैः ॥ ३९॥ व्युद्धाहयितुमैशिष्ट, न पुनः कञ्चनापि सः॥ ततः सोऽन्वेषयामास, सूरीणां छिद्रमन्वहम् ॥ ४० ॥ इतश्च पुष्पमित्राख्य-सूरयोप्यर्थपौरुषीम् ॥ सर्वर्षीणां पुरश्चक्रुः, श्रुताथैकथनामिकाम् | ॥४१॥ सूरीणां सन्निधानेऽर्थ, शृणुतेति महर्षिभिः॥ तदा प्रोक्तो माहिलर्षि-ईविष्टोऽब्रवीदिति ॥४२॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy