________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
।। २५५ ।।
यस्य, प्रदेया गणधारिता ॥ अयोग्यस्य तु तद्दाने, दातुर्दोषो भवेन्महान् ॥ १४ ॥ यदाहुः-"वूढो गणहरसद्दो, गोअमाईहिं धीरपुरिसेहिं ॥ जो तं ठवेइ अपत्ते, जाणतो सो महापायो ! ॥ १५ ॥” तदाचार्यपदं देयं, योग्यस्यैव विवेकिना ॥ अयोग्यस्तु न तस्याहः, पायसस्येव वायसः ! ॥ १६ ॥ योग्यस्तु मम शिष्येषु, गुणरत्नमहोदधिः ॥ अस्ति दुर्बलिकापुष्प-मित्रनामा महाशयः ॥ १७॥ सर्वेषामात्तदीक्षाणां, मद्वन्धूनां तु सर्वथा ॥ श्रीफल्गुरक्षितो गोष्ठा-माहिलो वाऽस्ति सम्मतः ॥ १८ ॥ कांक्षन्ति गणधारित्वं, खजनत्वाद्धि ते तयोः ॥ सम्यग्जानन्ति न त्वेषां, त्रयाणां गौणमन्तरम् ॥ १९ ॥ ततस्तदन्तरं प्रोच्य, सर्वर्षीणां निजे पदे ॥ शिष्यं दुर्बलिकापुष्प-मित्राख्यं स्थापयाम्यहम् ॥ २०॥ विमृश्येत्यखिलान् साधून् , समाहूय मुनीश्वरः ॥ वल्लतैलाज्यकुम्भाना, दृष्टान्तानित्यवोचत ॥ २१ ॥ वलकुम्भाद्यथा रिती-कर्तुं नीचैर्मुखीकृतात् ॥ निष्पावा निखिला मध्य-पता निर्यान्ति सत्वरम् ॥ २२ ॥ एवं दुर्बलिकापुष्प-मित्रनाम्नो महामतेः ॥ जातोऽस्मि श्रुतसूत्रार्थ-दाने बल्लघटोपमः ॥ २३ ॥ अधोमुखीकृतात्तैल-घटात्तैलं यथा द्रुतम् ॥ नियति भूरि किञ्चित्तु, तिष्ठत्यपि घटाश्रितम् ॥ २४ ॥ फल्गुरक्षितसंज्ञस्य, श्रुताम्नायार्पणे तथा ॥ जातोऽस्म्यहं तैलकुम्भ-सन्निभो भो महर्षयः ! ॥ २५ ॥ अवाशुखीकृतादाज्यकुम्भात्तु स्तोकमेव हि ॥ घृतं निर्याति भूयस्तु, तिष्ठत्येव घटान्तरे ॥ २६ ॥ एवं जातोऽस्यहं गोष्ठा-माहिलाभिधसन्मुनेः ॥ श्रीमत्सिद्धान्तसूत्रार्थ-दाने घृतघटोपमः ॥ २७ ॥ तदयं श्रुतपायोधि-पारश्वा गुणोदधिः ॥ अस्तु
UTR-1