SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २५४ ।। हरे-या बृहदृत्तिविलोकनेन ॥ आसादितोऽप्येवमपैति बोधियंत्रादयं तन्ननु रक्षणीयः॥९१॥इति षष्ठनिहवकथा॥६॥ | ___“अथो चतुरशीत्याढ्यै-वर्षाणां पञ्चभिः शतैः॥ श्रीवीरमुक्तेर्जातस्य, सप्तमस्योच्यते कथा ॥१॥" "तथा हि"देवेन्द्रवन्दिताः पूर्वो-दिताःश्रीआर्यरक्षिताः॥ पुरं दशपुरं जग्मु-रन्यदा गच्छसंयुताः ॥२॥ तेषां शिष्यास्त्रयोऽभूवन, विशेषेण विचक्षणाः ॥ तेषु दुर्बलिकापुष्प-मित्रनामादिमो मतः ॥३॥ द्वैतीयिकस्तु सूरीणां, सोदरः फल्गुरक्षितः ॥ तृतीयस्त्वभवद्गोष्ठा-माहिलः सूरिमातुलः ॥४॥ तदा च मथुरापुर्या-माययौ कोऽपि नास्तिकः॥ नास्त्यात्मे| त्यादिभिर्वाक्यै-लोकान् व्युदाहयन् बहून् ॥ ५॥ तत्र चाऽभूत्साधुसङ्घो, न पुनः कोऽपि वादकृत् ॥ नास्तिकस्तु स निग्राह्यः, कथञ्चिल्लोकवञ्चकः ॥६॥ इति वादिनमानेतुं, सङ्घः स मथुरास्थितः ॥ श्रमणान् प्राहिणोत् श्रीमदार्यरक्षितसन्निधौ ॥७॥ इति व्यज्ञपयंस्तेऽपि, गत्वा श्रीआर्यरक्षितान् ॥ लोकान् व्युद्धाहयत्युच्चै-मथुरापुरि नास्तिकः ॥८॥ तत्तं जेतुं वयं पूज्या, नगरी पावयन्तु ताम् ॥ प्रेषयन्त्वथवा कश्चि-द्विनेयं वादिजित्वरम् ॥९॥ ततस्ते सूरयस्तत्र, वृद्धत्वाद्गन्तुमक्षमाः ॥ वादलब्धिधरं गोष्ठा-माहिलं प्रेषयंस्तदा ॥ १० ॥ सोऽपि तत्रागमत्सत्रा-ऽऽद्वातुमागतसाधुभिः ॥ वादे निरुत्तरीचक्रे, तञ्च चार्वाकमुग्रधीः ॥ ११॥ जितकाशी सूरिपार्थे, यियासुरपि स व्रती ॥ सङ्घाग्रहवशात्तत्र, चतुर्मासीमवास्थितः ॥ १२ ॥ इतश्च विश्ववन्द्याः श्री-आर्यरक्षितसूरयः ॥ निजायुःप्रान्तमासन्नं-विज्ञायैवमचिन्तयन् ॥ १३ ॥ योग्यस्यैव विने UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy