SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। २५३ ॥ एवं तयोरभूद्वादः, षण्मासी यावदन्वहम् ॥ ७६ ॥ अथ भूपो गुरुं प्रोचे, खामिन् ! वादः समाप्यताम् ॥ नित्यं || तृतीयमध्य सीदति मे राज-कार्य व्यग्रतयाऽनया ॥ ७७ ॥ ऊचे सूरिरियत्कालं, धृतोऽयं लीलया मया ॥ अथाऽस्य निग्रहं यनम् (३) * प्रातः, करिष्ये नात्र संशयः ॥ ७८ ॥ ततः प्रभाते गुरवः, सभां गत्वेति तं जगुः ॥ एहि सत्यपरीक्षार्थ, गच्छामः | कुत्रिकापणम् ॥ ७९ ॥ हट्टो हि देवसम्बन्धी, 'कुत्रिकापण' उच्यते ॥ सद्भावानखिलांस्तत्र, प्रदत्ते प्रार्थितः सुरः | ॥८॥ इत्युक्त्वा ते सहादाय, रोहगुप्तं नृपान्विताः ॥ सुधियामापणा जग्मु-गुरवः कुत्रिकापणम् ॥ ८१ ॥ तत्र जीवानजीवांश्च, नोजीवांश्च प्रदेहि नः ॥ तैरित्युक्तः सुरो जीवा-नजीवांश्च ददौ द्रुतम् ॥ ८२ ॥ नोजीवास्तु जगत्यत्र, नो सन्तीति शशंस च ॥ नोजीवे याचिते भूयो-ऽप्यजीवं वा ददौ सुरः॥८३ ॥ रोहगुतं ततः सूरि-रूचे | मुश्च कदाग्रहम् ॥ नोजीवश्चेदस्ति विश्वे, तर्हि नादात्कथं सुरः १ ॥ ८४ ॥ प्रश्नरित्यादिभिः सूरि-स्तं द्रुतं नृप| साक्षिकम् ॥ निजग्राह चतुश्चत्वा-रिंशद्युतशतोन्मितैः ॥ ८५ ॥ तथापि रोहगुप्तस्या-ऽत्यजतस्तं. कदाग्रहम् ॥ खेलमल्लकभस्म द्राक्, शिरसि न्यक्षिपद्गुरुः ॥ ८६ ॥ ततस्तं निह्नव इति, सूरिराजैबहिष्कृतम् ॥ चक्रे निर्विषयं भूपः, क्रुद्धस्तच्छाठ्यदर्शनात् ॥ ८७ ॥ जयति श्रीमहावीर-जिन इत्यखिले पुरे ॥ उद्घोषणां धराधीश-श्वकार गुरुशासनात् ॥८८॥ गुरुदत्तेयमित्यङ्गे, वहन् भूति ततः परम् ॥ निर्लजो रोहगुप्तोऽपि, खैरं बभ्राम भूतले ॥८९॥ स वैशेषिकसूत्राणि, कल्पयामास च स्वयम् ॥ पदार्थानियतं द्रव्य-गुणादीन् षट् प्ररूपयन् ॥९॥ पूर्वोदिताः प्रश्नगणास्त्वि UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy