SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ।। २५२॥ द्विभिद्यते ॥ ६१ ॥ तजीवाजीवनोजीव-रूपं राशित्रयं स्फुटम् ॥ मतं ममेति तेनोक्ते, जजल्पुरिति सूरयः ॥६२ ॥ जीवाद्विलक्षणत्वं य-नोजीवस्योदितं त्वया ॥ तन्न सङ्गच्छते जीव-धर्माणां तत्र दर्शनात् ॥६३ ॥ नोजीवो हि छिन्नपल्ली-पुच्छादिस्तव संमतः ॥ तत्र तु प्रेक्ष्यते जीव-लक्षणं स्फुरणादिकम् ॥ ६४ ॥ अथ चेजीवदेशत्वा-नो जीवः स त्वयोच्यते ॥ तत्किं स देशः स्थाजीवा-द्भिन्नस्तदितरोऽथवा ॥६५॥ भिन्नश्चेत्तेन जीवेन, पुनस्तत्सङ्गमः K कथम् ? ॥ भिन्नो हि देशोऽन्यत्रापि, संमिलेत्परमाणुवत् ॥ ६६ ॥ तस्य देशस्य चान्येन, जीवेन सह सङ्गमे ॥ सुखदुःखादि साङ्कय, स्थात्तयोः कर्मसङ्करात् ॥ ६७ ॥ अथ जीवस्य कर्मेव, देशे संक्रामतीति चेत् ॥ तदा तु दोषौ जायेतां, कृतनाशाकृतागमौ ॥ ६८ ॥ कृतनाशो हि जायेत, नाशाद्देशस्थकर्मणः ॥ जीवस्थकर्मणो देशे, सञ्चाराचाकृतागमः ॥ ६९ ॥ किञ्चामूर्तस्य जीवस्य, गगनस्येव कर्हिचित् ॥ नैव देशो भवेद्भिन्नः, खतोऽपि परतोऽपि च ॥ ७० ॥ अभिन्नश्चेत्तदा तु स्या-जीवान्तर्गत एव सः ॥ तदा च राशिद्वितय-मेवासीन्न तु तत्रयम् ॥७१ ॥ अथाऽभिन्नोऽप्ययं देशः, स्थानभेदविवक्षया ॥ नो जीवः कथ्यते कुम्भ-गृहाद्याकाशवद्यदि ॥ ७२ ॥ तर्हि राशि!अजीव-नामाऽपि प्रतिपद्यताम् ॥ व्योमादीनामजीवाना-मप्येवं देशसम्भवात् ॥ ७३ ॥ तथात्वे च भवेद्राशिचतुष्कं भवतो मते ॥ तद्राशित्रयमेवात्र, कुतस्त्वं प्रतिपद्यसे ? ॥ ७४ ॥ अथाऽजीवानोअजीवो, लक्षणैक्यान्न भिद्यते ॥ नो जीवोऽपि तदा जीवा-लक्षणैक्यान्न भिद्यते ॥ ७५ ॥ तद्राशिद्वयमेवास्ति, वास्तवं न तु तत्रयम् ॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy